________________
सेनप्रश्ने ४ उल्लासः .११०॥
फतेपुरस०
७८-८१ राजापुरस
८२ आगरास०
तथा-देवपूजनावसरे तिलकं क्रियते न वा इति प्रश्नोत्रोत्तरं-देवपूजावेलायां तिलककरणनिषेधो ज्ञातो नास्त्यात्मीयगच्छे इति ॥७९॥ तथा-श्राद्धकृतस्तुतिस्तोत्राणि मण्डल्या कथयितुं शुद्धयन्ति न वा इति प्रश्नोऽत्रोत्तरं-शुद्धयन्तीति ॥ ८॥
तथा द्विविधाहारमध्ये निम्बुकपटुं विना क्षाराजमकः मधुराजमकश्च ग्रहीतुं कल्पते न वा प्रश्नोऽत्रोत्तरं-द्विविधाहारप्रत्याख्याने | निम्बुकपट्टरहितः क्षारको मधुरो वाऽजमको ग्रहीतुं कल्पते इति ॥ ८१॥
अथ राजापुरसङ्घकृतप्रश्नस्तदुत्तरं च । यथा-चैत्राद्यष्टाह्निकाषट्कं दशस क्षेत्रेषु शाश्वतं भवति न वा, तत्र देवा महोत्सवं कुर्वन्ति न वा इति प्रश्नोऽत्रोत्तर-चैत्राद्यष्टा| ह्रिकाषट्कं श्राद्धविधिप्रमुखग्रन्थानुसारेण तथा अन्यग्रन्थानुसारेण च दशसु क्षेत्रेषु शाश्वतं ज्ञायते, तत्र नन्दीश्वरादिषु वैमानिकप्रमुखदेवाः | | तीर्थयात्रादिमहोत्सवं कुर्वन्तः सम्भाव्यन्ते ॥ ८२ ॥
अथाऽऽगरासङ्घकृतप्रश्नौ तदुत्तरे च। यथा-खसखसडोडकमध्ये ये कणास्ते बहुबीजा अन्यथा वा इति प्रश्नोऽत्रोत्तरं-खसखसडोडको बहुबीजः कथ्यते, यत एकडोडक| मध्ये बहवः कणास्सन्तीति ॥ ८३ ॥
तथा-नमस्कारसहितप्रत्याख्यानं कृतं भवति, कार्यविशेषाच्च न पारितं, पश्चात्सन्ध्यायां पारितं, परमेतावत्कालमुपयोगवान् स्थितस्तस्य नमस्कारसहितफलमधिकं भवति न वा इति प्रश्नोऽत्रोत्तरं--नमस्कारसहितप्रत्याख्यानस्य जघन्यकालमानं घटिकाद्वयं कथितमस्ति, तथानमस्कारं गणयति तदा प्रत्याख्यानं पूर्णं भवतीत्यपि कथितमस्ति, तस्माद् घटिकाद्वयस्योपरि यावत्कालमुपयोगवान् तिष्ठति, नमस्कारं च
For Private Personal use only