SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ | रात्रौ निद्रापगमे सांसारिककार्यं कृत्वा सुप्यते तदा पुनर्गाथोच्चारो विधीयते किंवा प्राक्कृतोच्चार एवं प्रमाणमिति प्रश्नोऽत्रोत्तरं-श्राद्धः शयन-IN वेलायामेवं प्रत्याख्यानं कृत्वा खपिति यद्रात्रौ प्रमादो भवति तदाहारप्रमुखं व्युत्सृजामि, तस्मानिद्रापगमेऽपि कश्चित्कदाचित्संसारकार्य करोति तदा प्रत्याख्यानभङ्गो न भवति इति ॥ ७४ ॥ तथा-आईफलकर्कटिकाम्रादीनि निर्बीजीकृतानि घटिकाद्वयानन्तरं प्रासुकानि भवन्ति, तथा त्रिविधाहारद्विविधाहारप्रत्याख्यानिनामेकाशनकमध्ये तानि कल्पन्ते न वा इति प्रश्नोऽत्रोत्तरं-आमाफलानि निर्बीजीकृतान्यपि घटिकाद्वयादनु प्रासुकानि न भवन्ति, यतः कटाहजीवस्तथैव तिष्ठति । तथा त्रिविधाहारैकाशनके न कल्पन्ते, द्विविधाहारैकाशनकेऽपि सचित्तप्रत्याख्यानिनां न कल्पन्ते, पक्क कलानि निर्बीजीकृतानि तु घटिकाद्वयानन्तरं त्रिविधाहारप्रत्यास्यानिनां कल्पन्ते इति ॥ ७५ ॥ तथा-त्रिकालवेलायां पूजा क्रियते सा त्रिकालपूजा कथ्यते किंवा न्यूनाधिककालेऽपि कृता त्रिकालपूजा इति प्रश्नोत्रोत्तरं-त्रिकालवेलायां IN पूजा क्रियते सा त्रिकालपूजा कथ्यते, कारणविशेषे तु न्यूनाधिककालेऽपि कृता सैव कथ्यते इति ॥ ७६ ॥ तथा जिनालये रात्रौ गीतगानादि क्रियते तत्करणे देवद्रव्यमुत्पद्यते नान्यथा तदा तत्कर्त्तव्यं न वा इति, प्रश्नोत्रोत्रं-शास्त्रानुसारेण | मूलविधिना गीतगानादि न शुद्धयति, परं देवद्रव्योत्पत्तिककारणेन रात्रावपि गीतगानादिभावनाकरणे लाभो ज्ञायते इति ॥ ७७ ॥ अथ फतेपुरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-जन्मसूतके मरणसूतके च प्रतिमा पूज्यते न वा इति प्रश्नोऽत्रोत्तर-उभयत्रापि स्नानकरणानन्तरं प्रतिमापूजननिषेधो ज्ञातो नास्तीति ॥ ७८॥ १ पाठोधारस्तु राज्यवधिकत्वान्न पुनः करणीयतया प्रतिभासते, विवक्षा चेत्तथा कुर्युरपि । Jan Educati on For Private Personal Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy