Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| रात्रौ निद्रापगमे सांसारिककार्यं कृत्वा सुप्यते तदा पुनर्गाथोच्चारो विधीयते किंवा प्राक्कृतोच्चार एवं प्रमाणमिति प्रश्नोऽत्रोत्तरं-श्राद्धः शयन-IN वेलायामेवं प्रत्याख्यानं कृत्वा खपिति यद्रात्रौ प्रमादो भवति तदाहारप्रमुखं व्युत्सृजामि, तस्मानिद्रापगमेऽपि कश्चित्कदाचित्संसारकार्य करोति तदा प्रत्याख्यानभङ्गो न भवति इति ॥ ७४ ॥
तथा-आईफलकर्कटिकाम्रादीनि निर्बीजीकृतानि घटिकाद्वयानन्तरं प्रासुकानि भवन्ति, तथा त्रिविधाहारद्विविधाहारप्रत्याख्यानिनामेकाशनकमध्ये तानि कल्पन्ते न वा इति प्रश्नोऽत्रोत्तरं-आमाफलानि निर्बीजीकृतान्यपि घटिकाद्वयादनु प्रासुकानि न भवन्ति, यतः कटाहजीवस्तथैव तिष्ठति । तथा त्रिविधाहारैकाशनके न कल्पन्ते, द्विविधाहारैकाशनकेऽपि सचित्तप्रत्याख्यानिनां न कल्पन्ते, पक्क कलानि निर्बीजीकृतानि तु घटिकाद्वयानन्तरं त्रिविधाहारप्रत्यास्यानिनां कल्पन्ते इति ॥ ७५ ॥
तथा-त्रिकालवेलायां पूजा क्रियते सा त्रिकालपूजा कथ्यते किंवा न्यूनाधिककालेऽपि कृता त्रिकालपूजा इति प्रश्नोत्रोत्तरं-त्रिकालवेलायां IN पूजा क्रियते सा त्रिकालपूजा कथ्यते, कारणविशेषे तु न्यूनाधिककालेऽपि कृता सैव कथ्यते इति ॥ ७६ ॥
तथा जिनालये रात्रौ गीतगानादि क्रियते तत्करणे देवद्रव्यमुत्पद्यते नान्यथा तदा तत्कर्त्तव्यं न वा इति, प्रश्नोत्रोत्रं-शास्त्रानुसारेण | मूलविधिना गीतगानादि न शुद्धयति, परं देवद्रव्योत्पत्तिककारणेन रात्रावपि गीतगानादिभावनाकरणे लाभो ज्ञायते इति ॥ ७७ ॥
अथ फतेपुरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-जन्मसूतके मरणसूतके च प्रतिमा पूज्यते न वा इति प्रश्नोऽत्रोत्तर-उभयत्रापि स्नानकरणानन्तरं प्रतिमापूजननिषेधो ज्ञातो नास्तीति ॥ ७८॥
१ पाठोधारस्तु राज्यवधिकत्वान्न पुनः करणीयतया प्रतिभासते, विवक्षा चेत्तथा कुर्युरपि ।
Jan Educati
on
For Private
Personal Use Only

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264