Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 241
________________ तदाश्रित्य केचन नवीनां विपरीतायै कुर्वन्तः श्रूयन्ते, तद्यथा-येषामसद्हो नास्ति तेषामेवैते गुणा अनुमोदनयोग्याः, परं यस्य कस्यापि जल्पस्यासदहो भवति तस्यैते गुणा नानुमोदनारे इत्येतदाश्रित्य सम्यग्निर्णयः प्रसाद्य इति प्रश्नोऽत्रोत्तरं-असदहमन्तरेणान्येषां ये मार्गानुसारिसाधारणगुणास्तेऽनुमोदनाही नाऽन्ये इति वदन्ति तदसत्यमेव, यतो येषां मिथ्यात्वं भवति तेषां कश्चिदसदहोऽवश्यं भवत्येवान्यथा सम्यक्त्वमेव प्रतिपाद्यते, शास्त्रमध्ये तु मिथ्यात्वरूपासद्हे सत्यप्येते मार्गानुसारिगुणा अनुमोदनाः कथितास्सन्ति, यदुक्तमाराधनापताकाय “ जिणजम्मा- || को इऊसवकरणं तह महरिसीण पारणए। जिणसासणमि भक्ती पमुहं देवाण अणुमन्ने ॥ ३०८ ॥ तिरिआण देसविरई, पजंताराहणं च अनुमोए । सम्मइंसणलंभ, अणुमन्ने नारयाणपि ॥ ३०९ ॥ सेसाणं जीवाणं, दाणरुइत्तं सहावविणियत्तं। तह पयणुकसायत्तं, परोवगारित्तभव्वत्तं ॥३१॥ दक्खिन्नदयालुत्तं, पिअभासित्ताइ विविहगुणनिवहं । सिवमग्गकारणं जं, तं सव्वं अणुमयं मज्झ ॥ ३११ ॥ इअ परकयसुकयाणं, बहूणमणुमोअणा कया एवं । अह नियसुचरियनियरं, सरेमि संवेगरंगेणं ॥ ३१२' इति । अहवा सव्वांचअ वीअरायवयणाणुसारि जं सुकडं । कालत्तएवि तिविहं, अणुमोएमो तयं सव्वं ॥ १॥” इति चतुश्शरणेऽपि, अथ च मिथ्यात्विनां परपक्षिणां च दयामुखः कश्चिदपि गुणो नानुमोदनीय इति ये वदन्ति तेषां समा मतिः कथं कथ्यत इति ॥ १०३ ॥ । तथा-श्रीहीरविजयसूरीश्वरप्रसादितद्वादशजल्पपट्टकमध्ये अवन्दनीयचैत्यत्रयं विनाऽन्येषां चैत्यानि वन्दनपूजनयोग्यानि कथितानि सन्ति, | केचन तन्निषेधं ब्रुवन्तः श्रूयन्ते, तत्कथमिति प्रश्नोऽत्रोत्तरं-केवलश्राद्धप्रतिष्ठितचैत्य १ द्रव्यलिङ्गिद्रव्यनिष्पन्नचैत्य २ दिगम्बरचैत्यानि ३ विना सर्वेषां चैत्यानि वन्दनाहा॑णि पूजाहाणि च ज्ञेयानि, अथ च पूर्वोक्तानि निषिद्धान्यपि चैत्यानि साधुवासक्षेपेण वन्दनपूजनयोग्यानि भवन्तीत्यन्यथा परपक्षिकृतग्रन्था अप्यमान्या भवेयुः, तथा भव्यपार्श्वस्थादिदीक्षिताः साधवः केवलिनश्चावन्दनीयाः स्युः, तथा चासमञ्जस Join Educa t ion For Private Personal Use Only T w .jainelibrary.org

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264