Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अथ पत्तनसङ्ककृतप्रश्नास्तदुत्तराणि च । यथा-चक्रवर्तिना नवनिधानानि तत्पृष्ठगानि किं वा भूमिकाया उपरि चलन्ति मध्ये वा इति प्रश्नोऽत्रोत्तरं-जम्बूद्वीपमज्ञप्तिमूत्रावश्यकचूण्यादिषु 'नवमहानिहिओ चत्तारि सेणाओ न पविसंति' इत्येवंविधाक्षराणि सन्ति, एतद्नुसारेण नव निधानानि भूमिकाया उपरि चलन्ति, प्रवचनसारोद्धारवृत्त्याद्यनुसारेण तु चक्रवर्त्तिना सह भूमिमध्ये तन्नगरे व्रजन्तीति मतद्वयमस्ति, तत्त्वं तु केवलिनो विदन्तीति ॥९॥
तथा-चक्रवर्तिनः स्कन्धावारो द्वादशयोजनान्युत्तरति, चक्रवर्ती तु प्रत्येकं योजनमेकं चलति, ततो द्वादशयोजनप्रान्ते य उत्तरति स योजनमेकं चलति तदा द्वादशयोजनमध्ये कियन्ति दिनानि भान्तीति प्रश्नोत्रोत्तरं-जम्बूद्वीपमज्ञप्तौ योजनयोजनान्तरेण विश्रामेण चक्रवर्ती चलति, तथा चक्रवर्तिसैन्यं द्वादशयोजनान्युत्तरतीत्यनेकग्रन्थे कथितमस्ति, तस्मात्पूर्वापरविचारणया यद्योजनान्तरं कथितमस्ति तत्सैन्याग्रभागापेक्षया सम्भाव्यते, तथा चक्री सैन्यस्यादौ मध्येऽन्ते चोत्तरतीत्यक्षराणि व्यक्तानि शास्त्रे न दृष्टानि, आधुनिकठक्कुरास्तु विचाले उत्तरन्तो दृश्यन्ते, ततस्तत्काले यथोचितं भविष्यति तथोत्तरिष्यन्ति, ( यथोचितमुत्तरन्तोऽभविष्यन् ) तथापि चक्रवर्तिनां दिव्यानुमावेन सैन्यप्रान्तोत्तीर्णास्तेऽपि शीघ्र सुखेन मार्गमतिक्रमिष्यन्तीत्यत्र न काप्याशङ्का, यतो दिव्यशक्तिरचिन्त्याऽस्तीति ॥ ९ ॥
तथा-शरीरोद्वर्त्तनमले तथा स्नानपानीये तथा परिस्वेदपिण्डीकृतवस्त्रादिषु च सम्मूछिमपञ्चेन्द्रिया उत्पद्यन्ते न वा इति प्रश्नोऽत्रोत्तरंप्रज्ञापनासूत्रमध्ये 'सव्वेसु चेव असुइट्ठाणेसु वा समुच्छिममणुस्सा संमुच्छंति' इत्येतच्चतुर्दशालापकवृत्तिमध्येऽन्यानि यानि मनुष्यसंसर्गादशुचिस्थानानि सन्ति तेषु सम्मूछिममनुष्या उत्पद्यमानाः कथितास्सन्ति, एतदनुसारेण भवल्लिखितस्थानेष्वपि उत्पद्यमानास्सम्भाव्यन्त इति ॥९७ ॥
अथ अहम्मदावादसङ्गकृतप्रश्नास्तदत्तराणि च । यथा-पणसय सत्तत्तीसा, चउतीससहस्स लक्खइगवीसा । पुक्खरदीवड्डनरा, पुवेणऽवरेण पिच्छंति ॥ ११ ॥' एतस्या भावार्थ:
in Edelm
an
For Private
Personal Use Only

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264