Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रश्ने ४ उल्लासः
स्तम्भतीर्थ. १०३-१०६
मापद्येत, यतस्तत्कृतस्तोत्रादिग्रन्था आत्मीयपूर्वाचार्यैरङ्गीकृतास्सन्ति, पार्श्वस्थादिदीक्षितसाधवश्च वन्दनीकतया शास्त्रे प्रोक्तास्सन्तीति स्वयमेव ध्येयमिति ॥१०॥
तथा-चरकपरिव्राजकतामल्यादिमिथ्यादृष्टीनां तपश्चरणाद्यज्ञानकष्टं कुर्वतां सकामनिर्जरा भवत्यकामनिर्जरा चा इति, केचन वदन्ति तेषामकामनिर्जरैवेति साक्षरं प्रसाद्यमिति प्रश्नोत्रोत्तरं-ये चरकपरिव्राजकादिमिथ्यादृष्टयोऽस्माकं कर्मक्षयो भवत्विति धिया तपश्चरणाद्यज्ञानकष्टं कुर्वन्ति तेषां तत्त्वार्थभाष्यवृत्तिसमयसारसूत्रवृत्तियोगशास्त्रवृत्त्यादिग्रन्थानुसारेण सकामनिर्जरा भवतीति सम्भाव्यते, यतो योगशास्त्रचतुर्थप्रकाशवृत्तौ सकामनिर्जराया हेतुर्बाह्याभ्यन्तरभेदेन द्विविधं तपः प्रोक्तं, तत्र षट्प्रकार बाह्यं तपो, बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्परप्रत्यक्षत्वाकुतीर्थिकैर्गृहस्थैश्च कार्यत्वाच्चेति, तथा-लोकप्रतीतत्वात्कुतीर्थिकैश्च स्वाभिप्रायेणासेव्यत्वाद्वाह्यत्वमिति त्रिंशत्तमोत्तराध्ययनचतुर्दशसहस्रीवृत्तौ एतदनुसारेण षड्विधवाह्यतपसः कुतीर्थिकासेव्यत्वमुक्तं, परं सम्यग्दृष्टिसकामनिर्जरापेक्षया तेषां स्तोका भवति, यदुक्तं भगवत्यष्टमशतकदशमोदेशके देसाराहए'त्ति बालतपस्वी स्तोकमंशं मोक्षमार्गस्याराधयतीत्यर्थः, सम्यग्बोधरहितत्वाक्रियापरत्वाच्चेति, तया च मोक्षप्राप्तिन भवति, स्तोककशिनिर्जरणात् , भवत्यपि च भावविशेषाद्बल्कलचीर्यादिवद् , यदुक्तं “ आसंवरो अ सेयंवरो अ बुद्धोय अहव अन्नो वा। समभावभाविअप्पा, लहेइ मुक्खं न संदेहो" ॥ १॥ इति, यदि देषामकामनिर्जरैवाङ्गीक्रियते तर्हि 'जीवे णं भंते ! असंजए अविरए अपडिहयपच्चक्खाय| पावकम्मे इतो चुए पेच्चा देवे सिया ?' गो० अत्थेगतिए देवे सिआ, अत्यंगतिए नो देवे सिआ, से केण्डेणं जाव इतो चुए पेच्चा अत्थेगतिए देवे सिआ अत्यंगतिए नो देवे सिआ? गो० ! जे इमे जीवा अकामतम्हाए अकामछुहाए अकामबंभचेरवासेणं अकामसीयायवदंसमसगअन्हाणगसेयजल्लमलपंकपरिदाहेणं अप्पतरं वा भुज्जतरं वा कालं अप्पाणं परिकिलेस्सति, परिकिलेसित्ता कालमासे कालं किच्चा अण्णयरेसु वाणमंतरेषु
Jain Educati
o
nal
For Private
Personal Use Only
Liainelibrary.org

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264