Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 243
________________ Jain Educ देवत्ताए उववत्तारो भवन्ति, ' श्रीभगवती सूत्रप्रथमशतकप्रथमोद्देश कौपपातिकसूत्रादौ अकामनिर्जरया व्यन्तरेषूत्पाद: कथितेोऽस्ति तत्कथं सङ्गच्छते, यतः - सङ्ग्रहण्यादौ ' चरगपरिव्वाय बंभलोगो जा' इति वचनात्पञ्चमदेवलोके तेषामुत्पादस्य मणितत्वादिति विरोधापत्तेः, हारिभद्रचामपि " अणुकंपऽकामनिज्जरबालतवे दाणविणयविब्भंगे । संजोगविप्पओगे वसणूसवईडिसकारे ॥ १ ॥ ' इत्यत्रा काम निर्जराबालतपसो - र्भेदद्वयभणनं व्यर्थमेव एकेनाकामनिर्जरालक्षणेन चरितार्थत्वात् । तथा चउर्हि ठाणेहिं जीवा देवाउत्तए कम्मं पकरेंति, तंजहा' सरागसंजमेणं १ संगमासंजमेणं २ बालतवोकम्मेणं ३ अकामनिज्जराए' ४ एतद्वृत्तिलेशः सकषायसंयमेन - सकषायचारित्रेण वीतरागसंयमिनामायुषो बन्धाभावात् १ संयमासंयमस्य द्विस्वभावत्वादेशसंयमः २, बाला - मिध्यादृशस्तेषां तपः कर्म - तपःक्रिया बालतपः कर्म तेन २, अकामेन - निर्जरां प्रत्यनभिलाषेण निर्जराऽकामनिर्जरणा हेतुर्बुभुक्षादिसहनं यत्साsकामनिर्जरा तथा इति स्थानाङ्गसूत्र चतुर्थ स्थान के तथा ' अकामनिर्जरा रूपात्पुण्याज्जन्तोः प्रजायते । स्थावरत्वं त्रसत्वं वा, तिर्यक्त्वं वा कथंचन ' ॥ १०८ ॥ इत्यत्र पुण्यादिति पुण्यं न पुण्यप्रकृतिरूपं, किन्तु लाघवरूपं, तस्मात्स्थावरत्वादिकं प्राप्यते, तामलितापसादीनां तु शास्त्रेष्विन्द्रत्वादिप्राप्तिः कथिताऽस्ति सा च सकामनिर्जरया भवति, यदुक्तं तत्त्वार्थभाष्य नवमाध्ययनवृत्तौ अमरेषु तावदिन्द्रसामानिकादिस्थानानि प्राप्नोतीति । ननु ज्ञेया सकामा यमिना -' मित्यत्र यदि यमिनां यतीनामेव सकामनिर्जरा प्रोच्यते श्रावकाणामविरत सम्यग्दृष्टचादीनां च का गतिरिति चेदुच्यते यमिनामिति सामान्यतयोक्तेः श्रावकादीनामपि तारतम्येन द्वादशदेवलोकादिदायका सकामा भवतीति ज्ञायते, श्राद्धादीनामित्यत्रादिशब्दाद्वा लतपस्विनामपि कथमिति चेत्, शृणु, बालमसमर्थ सन्मार्गप्रदाने सकलकर्मक्षये वा, बालं च तत्तपश्च बालतपः तच्चाग्निप्रवेशभृगुगिरिप्रपतनादि कायक्लेशरूपं, कायक्लेशश्च 'कायकिलेसो संलीणया ये त्यागमवचनाद्वाह्यतपः, तच्च सकामनिर्जरा हेतुरिति ॥ १०१ ॥ emational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264