Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 237
________________ न कथयति तावत्कालं या वेला याति सा प्रत्याख्यानमध्ये गण्यते, जघन्यघटिकाद्वयनमस्कारसहितप्रत्याख्यानाच्चाधिकपुण्यं लगतीति शास्त्रानुसारेण ज्ञायत इति ॥ ८४ ॥ अथोज्जयिनीसंघकृतप्रश्नास्तदुत्तराणि च । यथा— कश्चित्पौपधिकश्रावको गुरोरप्रेऽर्थपौरुषी चैत्यवन्दनवेलायामुपसर्गहरस्तोत्रं कथयति न वा इति प्रश्नोऽत्रोत्तरं -- पौषधिकश्राद्धो गुर्वर्थपौरुषी चैत्यवन्दने उपसर्गहरस्तोत्रं कथयति निषेधो ज्ञातो नास्ति, वृद्धपरम्परया प्रवृत्तिरपि दृश्यते इति ॥ ८९ ॥ तथा - शुद्धकालवेलायां नमस्कारसहित प्रत्याख्यानं कृतं भवति ततो घटिकाद्वयं गृह्यते किं वा सूर्योदयाद् घटिकाद्वयं गृह्यते ? तद्व्यक्त्या प्रसाद्यमिति प्रश्नोऽत्रोत्तरं -- शुद्ध कालवेलायां नमस्कारसहित प्रत्याख्यानं कृतं भवति तत आरभ्य घटिकाद्वयं गृह्यते इति ॥ ८६ ॥ तथा - वैताढ्यसमीपे द्विसप्ततिबिलानि क्व सन्तीति प्रश्नोऽत्रोत्तरं वैताढ्यनिश्रया गङ्गासिन्ध्वोर्द्विसप्ततिबिलानि, तत्र दक्षिणभरतार्द्धं उत्तरभरतार्थे च तत्तद्वये नव नव विलसद्भावादिति ॥ ८७ ॥ अथ काकनगरसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा - सैन्धवहरीतकीद्राक्षा पिप्पल्यादीनि लाभपुरादागतानि सचित्तान्यचित्तानि वा इति प्रश्नोऽत्रोत्तरं - योजनशतादुपर्यागतं सैन्धवादि प्रासुकं भवति नेतरदिति ॥ ८८ ॥ १ दशसु प्रतिलेखनासु यथा सूर्योद्गमो भवतीत्येवं प्रतिक्रमणारम्भः शास्त्रीयः, षष्ठं चावश्यकं प्रत्याख्यानं, ततः तत्स्थानीया बेला शुद्धकालवेलेति ज्ञायते । Jain Education International For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264