Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तथा जीवेनानादिकालभव लभ्यं देयं च भवति, तदनपणे छुट्यते न वा इति प्रश्नोत्रोत्तरं-एकान्तो नास्ति, यदि तपःस्वाध्यायादिना | कर्म निर्जरयति तदा तदनपणे छुट्यते, कर्मनिर्जरणमन्तरा तदर्पणे छुटयते इति ॥ १७॥
तथा-चक्रवर्ती कियत्कालेन मोक्षं यातीति प्रश्नोऽत्रोत्तरं-जघन्यतस्तद्भवे उत्कृष्टतस्तु कश्चित्किञ्चिदूनार्द्धपुद्गलपरावर्तान्तरेणापि मोक्षं यातीति ॥१८॥
तथा-मेथी आचाम्लमध्ये कल्पते न वा इति प्रश्नोऽत्रोत्तरं-निषेधो न ज्ञायते, यतो मेथी द्विदलमस्ति, द्विदलं तु कल्पते इति ॥ १९॥
तथा-वार्षिकतपः कियता कालेन पूर्णं भवतीति प्रश्नोत्रोत्तरं-एतदालोचनातपः अशीत्यधिकशतोपवस्त्रप्रमाणमेकवर्षे पूर्ण भवति, तत्तप उपवासाचामाम्ट्रकाशनकरीत्या क्रियते, परमेकान्तरोपवासा न कर्त्तव्याः, पुनस्तिथैर्वृद्धि निर्भवति तदोपवस्त्रमेकाशनकं वा कर्त्तव्यं, परमाचामाम्लं नायाति, ततः पर्वदिने उपवस्त्रमेव समायाति, तथा विंशत्यधिकशताचामाम्लानि तेषां षष्टयुपवासानि भवन्तीत्यनया रीत्या अशीत्यधिकशतोपवस्त्रैवार्षिकं तपः पूर्ण भवति, एकाशनकानि त्वधिकान्यतो द्वयशनकान्यपि करोति तथापि तपः पूर्ण भवतीति ॥ ७० ॥
तथा-श्राद्धः प्रतिमां वहन् यात्राद्यर्थ यानपात्रेण याति न वा इति प्रश्नोऽत्रोत्तरं-प्रतिमायां यात्राद्यर्थ वाहनमारुह्य न यात्यश्वादिकमारुह्य तु यातीति ॥ १ ॥
तथा-अष्टमप्रतिमादिषु आरम्भः क्रियते न वा इति प्रश्नोत्रोत्तरं-अष्टमप्रतिमायामष्ट मासान् यावदारम्भः कायेन न क्रियते, एवं नवम्यामपि नव मासान् यावद्दशम्यां दश मासान् यावत्स्वार्थमन्नपानीयादि वस्तु निष्पन्नं न कल्पते, परार्थं निष्पन्नं तु कल्पत इति ॥७२॥
Jain Educational
For Private
Personal Use Only

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264