Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 231
________________ ख्याति पुनरेकाशनकरहितं करोति तदा सूरे उग्गए अभत्तटुं प्रत्याख्यातीगविच्छिन्नपरम्परा दृश्यते, षष्ठप्रमुखप्रत्याख्याने तु पारणके उत्तरपारणके चैकाशनं करोत्यथवा न करोति तथापि · सूरे उग्गए छट्ठभत्तं अट्ठमभत्तं ' इति प्रत्याख्यातीयमप्यविच्छिन्नपरम्परा दृश्यते । तथा-पारणके | उत्तरपारणके चैकाशनकं विनापि चउत्थभत्तं छटुभत्तं अटुमभत्तं इति कथ्यते, तदक्षराणि तु श्रीकल्पसूत्रसामाचारीमध्ये सन्तीति बोध्यम् ॥ १८ ॥ तथा-खरतराः प्रश्नयन्ति-यद्भवन्त आच्छादितस्थापनाग्रे क्रियां कुर्वन्ति तत्कथं शुद्धयतीति प्रश्नोऽत्रोत्तरं जपमालिकाप्रमुखत्वर| स्थापना भवति तत्र दृष्टी रक्षिता विलोक्यते, तस्मात्तदनाच्छादनं युक्तिमत् , अक्षप्रमुखयावत्कथिकस्थापनाये तु दृष्टिरक्षणनियमो ज्ञातो नास्ति, तस्मादाच्छादिताग्रेऽपि क्रिया शुद्ध्यतीति ॥ ५९॥ अथ देवगिरिसङ्घकृतप्रश्नास्तदुत्तराणि च । यथा-ये श्राद्धा देवसिकपौषधं गृहीत्वा पश्चात्सन्ध्यायां भाववृद्धौ यदा रात्रिपौषधं गृह्णन्ति तदा पौषधसामायिककरणानन्तरं ' सज्झाय | करुं बहुवेल करस्यु उपधि पडिलेहुं' इत्यादेशान् मार्गायन्ति किंवा सज्झाय करूं इत्यनेन सरतीति प्रश्नोऽत्रोत्तर--सज्झाय करुं इत्यादेशमार्गणेन सरति, बहुवेलादेशमार्गणनियमस्तु ज्ञातो नास्ति, यतः स प्रातम्गितोऽस्तीति बोध्यम् ॥ ६॥ तथा-शेषकाले साधवः श्राद्धश्राद्धीजनेषु शृण्वत्सु श्रीकल्पसूत्रं पठन्ति पाठयन्ति किं वा एकान्त एवेति प्रश्नोऽत्रोत्तरं-साधवः स्वेच्छया कल्पसूत्रं पठन्तः पाठयन्तश्च सन्ति, अत्रान्तरे कश्चित् श्राद्धादिर्वन्दनार्थ समागतस्तदा शनैः पठनपाठनाक्षराणि न ज्ञातानि सन्ति, परं श्राद्धादिमुद्दिश्य पठन पाठनं च पर्युषणापर्व विना न शुद्धयतीति ॥ ६१ ॥ Jain Educati For Private & Personal Use Only

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264