Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 229
________________ तथा-कस्मिन् शास्त्रे श्राद्धस्य सामायिककरणावसरे प्रथममीर्यापथिकी प्रतिक्रम्य सामायिकमुखवस्त्रिका प्रतिलेखयतीति उक्तमस्ति तत्प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-'इरियावहिआए अप्पडिकंताए न किंचि कप्पइ चेइअवंदणसज्झायावस्सयाई काउं' इत्यक्षराणि महानिशीथग्रन्थे सन्ति, ततः सामायिकऽपीर्यापथिकीपूर्वमेव प्रतिक्रम्यते इति ज्ञायते, तथाऽऽवश्यकचूौँ ढङ्करश्रावको विभातकाले गृहान्निसृत्य शरीरचिन्तां विधायोपाश्रये ईर्यापथिकी प्रतिक्रामन् कथितोऽस्ति, सा वेला सामायिकप्रतिक्रमणकरणस्येति ।। ४९॥ ____ तथा-नमस्कारपदानामोलिकायां कियन्त उपवासाः क्रियन्ते, तत्र च नमस्कारपदानि कथं गण्यन्ते इति प्रश्नोऽत्रोत्तरं-नमस्कारस्य । नव पदानि सन्ति तत्र प्रथमसप्तपदेषु प्रत्येकं यावन्त्यक्षराणि तावन्त उपवासाः सम्बद्धाः क्रियन्ते, अष्टमनवमपदयोस्तु सप्तदशाक्षराणि सन्ति, तस्मात् शक्तौ सत्यां सप्तदशोपवासाः सम्बद्धाः कर्त्तव्याः, तदभावे चाष्टौ नव चोपवासाः कर्तव्याः, तथा गणनमाश्रित्याधुनिकप्रवृत्त्यनुसारेणैकान्तो। न दृश्यते, यतः कश्चिद्गणयति कश्चिन्नेति, यो गणयति स सप्तौलिकामध्ये यत्पदतपः करोति तत्पदं गणयति, तथाऽष्टमनवमपदतपः सम्बद्धं करोति तर्हि पदद्वयगणनमपि सम्बद्धं गणयति, यदि पृथक् तपः करोति तर्हि पदद्वयगणनमपि पृथग् गणयति, गणनं तु प्रतिपदं लक्षमानं ज्ञेयम् । अष्टमनवमपदयोः सम्बद्धगणनं लक्षद्वयमानं, तयोः पृथक् तपसि पृथगणनं लक्षप्रमाणम् । तथा-कश्चिद्यदा यत्पदतपः करोति स तदा तत्पद्गणनं द्विसहस्रमानं गणयति, तस्माद्यस्य यादृशी शक्तिः स ताम्गणनं विधत्त इति ॥ १०॥ तथा-साधुर्मध्याह्नकाजकमुद्धृत्य परिष्ठापयत्यन्यथा वा इति प्रश्नोत्रोचरं-चतुर्मासके साधुर्मध्याह्नकाजकमुद्धृत्य परिष्ठापयतीति परम्परा श्रीहीरविजयसूरिपार्श्वे दृष्टास्तीति ॥ ११ ॥ तथा—जगतीपार्श्वे मक्षिकापक्षप्रमाणं जलं कथितमस्ति, तत्र सर्वदा मक्षिकापक्षप्रमाणं किंवा वेलाया आगमने न्यूनाधिकं वा भवतीति प्रश्नोत्रोत्तरं-मक्षिकापक्षप्रमाणं यत्र जलमस्ति तत्र सर्वदा सदृशं भवति, परं वेलाप्रयोगेण न्यूनाधिकं ज्ञातं नास्तीति ॥ १२ ॥ Jan Educa tional For Private 3 Personal Use Only A w.jainelibrary.org

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264