Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 232
________________ सेनप्रभे ४ उल्लासः ॥ १०८ ॥ Jain Educatio तथा — केचन वदन्ति - श्रीमहावरिशिष्य श्री सुधर्मस्वामिन आरभ्य परम्परया कलिकालयुगप्रधानसमानश्री ही रविजयसूरयः त्रिषष्टितमपट्टे, केचन वदन्ति एकषष्टितमपट्टे, उ० श्रीधर्म्मसागरगणिकृतपट्टावल्यां त्वष्टपञ्चाशत्तमपट्टे सन्तीति त्रयाणां मध्ये किं प्रमाणमिति प्रश्नोऽत्रोत्तरंश्रीमहावीरशिष्यसुधर्मस्वामिन आरभ्य परम्परया श्रीहीरविजयसूरयोऽष्टपञ्चाशत्तमपट्टे सन्तीति ज्ञेयम् ॥ ६२ ॥ तथा - द्वाविंशतितीर्थकर वारके ' कारणजाए पडिक्कमणं इत्युक्तमस्ति तत्पञ्चानां प्रतिक्रमणानां मध्ये किंनामकमिति प्रश्नोऽत्रोत्तरं - 'कारणजाए पडिक्कमणं' एतत् पाक्षिकाद्याश्रित्य ग्राह्यं, उभयकालप्रतिक्रमणं तु सर्वेषां भवतीति बोध्यम् ॥ ६३ ॥ तथा - उपधानपौषधैकाशनकमध्येऽन्यपौषधैकाशनकमध्ये वाऽऽर्द्रशाकभक्षणं शुद्धयति न वा इति, प्रश्नोऽत्रोत्तरं - उभयपौषधैकाशन के आर्द्रशाकभक्षण प्रवृत्तिरधुना नास्तीति ॥ ६४ ॥ तथा - श्राद्धैः पौषधपारणे सामायिकपारणे च काः कियन्त्यश्च गाथाः कथ्यन्ते इति प्रश्नोऽत्रोत्तरं - पौषधपारणे ' सागरचंदो कामो ० १ धन्ना सलाह णिज्जा ० २ १ एते द्वे गाथे वक्तव्ये सामायिकपारणे तु ' सामाइअवयजुत्तो ० १ छउमत्थो मूढमणो ० २ सामाइ अपोसहसंठिअस्स ० ३ ' एतास्तिस्रो गाथा वक्तव्या इति शास्त्रे सामायिकपारणाधिकारे कथितमस्ति, परमधुना 'सामाइअवयजुत्तो ० १ सामाइअम्भि उकए ०२ एते द्वे गाये पठन्तो दृश्यन्ते इति ॥ ६५ ॥ तथा - दानशीलतपभावनामध्ये द्वादशत्रतानि समायान्ति न वा इति प्रश्नोऽत्रोत्तरं सर्व्वव्रतानि प्राणातिपातरक्षणार्थं सन्ति, प्राणातिपातविरमणव्रतं तु अभयदानरूपं, ततो द्वादश व्रतानि दानधर्मे समायान्ति तथा सर्व्वत्रतानि प्रत्याख्यानरूपाणि, प्रत्याख्यानं तु तपोरूपं, ततस्तपोमध्येऽपि समायान्ति, प्रथमत्रतं दाने चतुर्थत्रतं शीले एवं द्वादशत्रतानि दानादिचतुष्प्रकारकधर्ममध्येऽन्तर्भवन्तीति ॥ ६६ ॥ १] चिन्त्यमिदं द्वयोरपि कारणे एव विधेयत्वात् । tional For Private & Personal Use Only देवगिरी● ६०-७२ ॥ १०८ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264