________________
सेनप्रभे
४ उल्लासः ॥ १०८ ॥
Jain Educatio
तथा — केचन वदन्ति - श्रीमहावरिशिष्य श्री सुधर्मस्वामिन आरभ्य परम्परया कलिकालयुगप्रधानसमानश्री ही रविजयसूरयः त्रिषष्टितमपट्टे, केचन वदन्ति एकषष्टितमपट्टे, उ० श्रीधर्म्मसागरगणिकृतपट्टावल्यां त्वष्टपञ्चाशत्तमपट्टे सन्तीति त्रयाणां मध्ये किं प्रमाणमिति प्रश्नोऽत्रोत्तरंश्रीमहावीरशिष्यसुधर्मस्वामिन आरभ्य परम्परया श्रीहीरविजयसूरयोऽष्टपञ्चाशत्तमपट्टे सन्तीति ज्ञेयम् ॥ ६२ ॥
तथा - द्वाविंशतितीर्थकर वारके ' कारणजाए पडिक्कमणं इत्युक्तमस्ति तत्पञ्चानां प्रतिक्रमणानां मध्ये किंनामकमिति प्रश्नोऽत्रोत्तरं - 'कारणजाए पडिक्कमणं' एतत् पाक्षिकाद्याश्रित्य ग्राह्यं, उभयकालप्रतिक्रमणं तु सर्वेषां भवतीति बोध्यम् ॥ ६३ ॥
तथा - उपधानपौषधैकाशनकमध्येऽन्यपौषधैकाशनकमध्ये वाऽऽर्द्रशाकभक्षणं शुद्धयति न वा इति, प्रश्नोऽत्रोत्तरं - उभयपौषधैकाशन के आर्द्रशाकभक्षण प्रवृत्तिरधुना नास्तीति ॥ ६४ ॥
तथा - श्राद्धैः पौषधपारणे सामायिकपारणे च काः कियन्त्यश्च गाथाः कथ्यन्ते इति प्रश्नोऽत्रोत्तरं - पौषधपारणे ' सागरचंदो कामो ० १ धन्ना सलाह णिज्जा ० २ १ एते द्वे गाथे वक्तव्ये सामायिकपारणे तु ' सामाइअवयजुत्तो ० १ छउमत्थो मूढमणो ० २ सामाइ अपोसहसंठिअस्स ० ३ ' एतास्तिस्रो गाथा वक्तव्या इति शास्त्रे सामायिकपारणाधिकारे कथितमस्ति, परमधुना 'सामाइअवयजुत्तो ० १ सामाइअम्भि उकए ०२ एते द्वे गाये पठन्तो दृश्यन्ते इति ॥ ६५ ॥
तथा - दानशीलतपभावनामध्ये द्वादशत्रतानि समायान्ति न वा इति प्रश्नोऽत्रोत्तरं सर्व्वव्रतानि प्राणातिपातरक्षणार्थं सन्ति, प्राणातिपातविरमणव्रतं तु अभयदानरूपं, ततो द्वादश व्रतानि दानधर्मे समायान्ति तथा सर्व्वत्रतानि प्रत्याख्यानरूपाणि, प्रत्याख्यानं तु तपोरूपं, ततस्तपोमध्येऽपि समायान्ति, प्रथमत्रतं दाने चतुर्थत्रतं शीले एवं द्वादशत्रतानि दानादिचतुष्प्रकारकधर्ममध्येऽन्तर्भवन्तीति ॥ ६६ ॥
१] चिन्त्यमिदं द्वयोरपि कारणे एव विधेयत्वात् ।
tional
For Private & Personal Use Only
देवगिरी● ६०-७२
॥ १०८ ॥
www.jainelibrary.org