SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ तथा जीवेनानादिकालभव लभ्यं देयं च भवति, तदनपणे छुट्यते न वा इति प्रश्नोत्रोत्तरं-एकान्तो नास्ति, यदि तपःस्वाध्यायादिना | कर्म निर्जरयति तदा तदनपणे छुट्यते, कर्मनिर्जरणमन्तरा तदर्पणे छुटयते इति ॥ १७॥ तथा-चक्रवर्ती कियत्कालेन मोक्षं यातीति प्रश्नोऽत्रोत्तरं-जघन्यतस्तद्भवे उत्कृष्टतस्तु कश्चित्किञ्चिदूनार्द्धपुद्गलपरावर्तान्तरेणापि मोक्षं यातीति ॥१८॥ तथा-मेथी आचाम्लमध्ये कल्पते न वा इति प्रश्नोऽत्रोत्तरं-निषेधो न ज्ञायते, यतो मेथी द्विदलमस्ति, द्विदलं तु कल्पते इति ॥ १९॥ तथा-वार्षिकतपः कियता कालेन पूर्णं भवतीति प्रश्नोत्रोत्तरं-एतदालोचनातपः अशीत्यधिकशतोपवस्त्रप्रमाणमेकवर्षे पूर्ण भवति, तत्तप उपवासाचामाम्ट्रकाशनकरीत्या क्रियते, परमेकान्तरोपवासा न कर्त्तव्याः, पुनस्तिथैर्वृद्धि निर्भवति तदोपवस्त्रमेकाशनकं वा कर्त्तव्यं, परमाचामाम्लं नायाति, ततः पर्वदिने उपवस्त्रमेव समायाति, तथा विंशत्यधिकशताचामाम्लानि तेषां षष्टयुपवासानि भवन्तीत्यनया रीत्या अशीत्यधिकशतोपवस्त्रैवार्षिकं तपः पूर्ण भवति, एकाशनकानि त्वधिकान्यतो द्वयशनकान्यपि करोति तथापि तपः पूर्ण भवतीति ॥ ७० ॥ तथा-श्राद्धः प्रतिमां वहन् यात्राद्यर्थ यानपात्रेण याति न वा इति प्रश्नोऽत्रोत्तरं-प्रतिमायां यात्राद्यर्थ वाहनमारुह्य न यात्यश्वादिकमारुह्य तु यातीति ॥ १ ॥ तथा-अष्टमप्रतिमादिषु आरम्भः क्रियते न वा इति प्रश्नोत्रोत्तरं-अष्टमप्रतिमायामष्ट मासान् यावदारम्भः कायेन न क्रियते, एवं नवम्यामपि नव मासान् यावद्दशम्यां दश मासान् यावत्स्वार्थमन्नपानीयादि वस्तु निष्पन्नं न कल्पते, परार्थं निष्पन्नं तु कल्पत इति ॥७२॥ Jain Educational For Private Personal Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy