Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 228
________________ सेनप्रश्ने ४ उल्लासः ॥१०६॥ जीवा उत्पद्यमानाः कथितास्सन्ति, तद्वत्तेषामपि मांसजीवानामाबाधोत्पद्यते इति सम्भाव्यते, परमेकशरीरस्थानन्तजीववन्नोत्पद्यते इति ज्ञातं || जेसलमेरु नास्तीति ॥ ४४॥ तथा-शुद्धसम्यक्त्वधारी श्राद्धो महाविदेहक्षेत्रे मनुष्यत्वेनोत्पद्यते न वा इति प्रश्नोत्रोत्तरं-मरणसमयं यावन्निरतीचारसम्यक्त्वाराधनायां सत्यां वैमानिकेष्वेव श्राद्धो यातीति ज्ञेयं, तदभावे तु यथासम्भवमन्यत्रापि गतिर्भवतीति श्राद्धो महाविदेहेष्वपि मनुष्यत्वेनोत्पद्यत इति ॥ ४५॥ तथा-तपसा निकाचितकर्मणां क्षयो भवति न वा इति प्रश्नोऽत्रोत्तरं-निकाचितानामपि कर्मणां तपसा क्षयो भवतीति श्रीउत्तराध्ययनसूत्रवृत्त्यादावुक्तमस्तीति ॥ ४६ ॥ तथा-श्रीवीरेण कस्मिन् भवे तीर्थकरनामगोत्रकर्म बद्धमिति प्रश्नोऽत्रोत्तर-पञ्चविंशतितमनन्दनभवे लक्षवर्ष चारित्रं प्रपाल्य विंशतिस्थानकान्याराध्य च तीर्थकरनामगोत्रकर्म बद्धमिति ॥ ४७ ।। तथा-श्रावकः श्राविका वा चतुर्थी पौषधप्रतिमां वहते, तस्य सामाचार्यनुसारेण चतुर्विधाहारपौषधः कर्त्तव्यः कथितोऽस्ति, तथासमवायाङ्गवृत्त्यनुसारेण तु त्रिविधाहारः सम्भवति, तस्मात्रिविधाहारपौषधं विधाय चतुर्थी प्रतिमां वहते किं वा न इति प्रश्नोऽत्रोत्तरं-प्रवचनसारोद्धारादिग्रन्थे श्राद्धचतुर्थप्रतिमायां चतुष्पर्वीदिने परिपूर्णश्चतुष्प्रकारपौषधः कथितोऽस्ति, तद्नुसारेणाष्टप्रहरपौषधश्चतुर्विधाहारोपवासः कर्त्तव्यो | युज्यते, परं सामाचार्यनुसारेणैतावान् विशेषो ज्ञायते यत् पक्षिकायां षष्ठकरणशक्तिर्न भवति तदा पूर्णिमायाममावास्यायां च त्रिविधाहारोपवासस्तथा आचामाम्लशक्त्यभावे निर्विकृतिकमपि कर्त्तव्यं, तत्र प्रथमोपवासस्तु शास्त्रानुसारेण चतुर्विधाहार एवं कर्तव्य इति ज्ञायते । समवायाङ्गवृत्त्यनुसारेण तु त्रिविधाहारोपवासः कर्त्तव्य इति व्यक्तिर्न ज्ञायते ॥ ४८ ॥ Jain Educa For Private Personal use only

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264