________________
सेनप्रश्ने ४ उल्लासः
॥१०६॥
जीवा उत्पद्यमानाः कथितास्सन्ति, तद्वत्तेषामपि मांसजीवानामाबाधोत्पद्यते इति सम्भाव्यते, परमेकशरीरस्थानन्तजीववन्नोत्पद्यते इति ज्ञातं || जेसलमेरु नास्तीति ॥ ४४॥
तथा-शुद्धसम्यक्त्वधारी श्राद्धो महाविदेहक्षेत्रे मनुष्यत्वेनोत्पद्यते न वा इति प्रश्नोत्रोत्तरं-मरणसमयं यावन्निरतीचारसम्यक्त्वाराधनायां सत्यां वैमानिकेष्वेव श्राद्धो यातीति ज्ञेयं, तदभावे तु यथासम्भवमन्यत्रापि गतिर्भवतीति श्राद्धो महाविदेहेष्वपि मनुष्यत्वेनोत्पद्यत इति ॥ ४५॥
तथा-तपसा निकाचितकर्मणां क्षयो भवति न वा इति प्रश्नोऽत्रोत्तरं-निकाचितानामपि कर्मणां तपसा क्षयो भवतीति श्रीउत्तराध्ययनसूत्रवृत्त्यादावुक्तमस्तीति ॥ ४६ ॥
तथा-श्रीवीरेण कस्मिन् भवे तीर्थकरनामगोत्रकर्म बद्धमिति प्रश्नोऽत्रोत्तर-पञ्चविंशतितमनन्दनभवे लक्षवर्ष चारित्रं प्रपाल्य विंशतिस्थानकान्याराध्य च तीर्थकरनामगोत्रकर्म बद्धमिति ॥ ४७ ।।
तथा-श्रावकः श्राविका वा चतुर्थी पौषधप्रतिमां वहते, तस्य सामाचार्यनुसारेण चतुर्विधाहारपौषधः कर्त्तव्यः कथितोऽस्ति, तथासमवायाङ्गवृत्त्यनुसारेण तु त्रिविधाहारः सम्भवति, तस्मात्रिविधाहारपौषधं विधाय चतुर्थी प्रतिमां वहते किं वा न इति प्रश्नोऽत्रोत्तरं-प्रवचनसारोद्धारादिग्रन्थे श्राद्धचतुर्थप्रतिमायां चतुष्पर्वीदिने परिपूर्णश्चतुष्प्रकारपौषधः कथितोऽस्ति, तद्नुसारेणाष्टप्रहरपौषधश्चतुर्विधाहारोपवासः कर्त्तव्यो | युज्यते, परं सामाचार्यनुसारेणैतावान् विशेषो ज्ञायते यत् पक्षिकायां षष्ठकरणशक्तिर्न भवति तदा पूर्णिमायाममावास्यायां च त्रिविधाहारोपवासस्तथा
आचामाम्लशक्त्यभावे निर्विकृतिकमपि कर्त्तव्यं, तत्र प्रथमोपवासस्तु शास्त्रानुसारेण चतुर्विधाहार एवं कर्तव्य इति ज्ञायते । समवायाङ्गवृत्त्यनुसारेण तु त्रिविधाहारोपवासः कर्त्तव्य इति व्यक्तिर्न ज्ञायते ॥ ४८ ॥
Jain Educa
For Private Personal use only