SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ तथा-कस्मिन् शास्त्रे श्राद्धस्य सामायिककरणावसरे प्रथममीर्यापथिकी प्रतिक्रम्य सामायिकमुखवस्त्रिका प्रतिलेखयतीति उक्तमस्ति तत्प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-'इरियावहिआए अप्पडिकंताए न किंचि कप्पइ चेइअवंदणसज्झायावस्सयाई काउं' इत्यक्षराणि महानिशीथग्रन्थे सन्ति, ततः सामायिकऽपीर्यापथिकीपूर्वमेव प्रतिक्रम्यते इति ज्ञायते, तथाऽऽवश्यकचूौँ ढङ्करश्रावको विभातकाले गृहान्निसृत्य शरीरचिन्तां विधायोपाश्रये ईर्यापथिकी प्रतिक्रामन् कथितोऽस्ति, सा वेला सामायिकप्रतिक्रमणकरणस्येति ।। ४९॥ ____ तथा-नमस्कारपदानामोलिकायां कियन्त उपवासाः क्रियन्ते, तत्र च नमस्कारपदानि कथं गण्यन्ते इति प्रश्नोऽत्रोत्तरं-नमस्कारस्य । नव पदानि सन्ति तत्र प्रथमसप्तपदेषु प्रत्येकं यावन्त्यक्षराणि तावन्त उपवासाः सम्बद्धाः क्रियन्ते, अष्टमनवमपदयोस्तु सप्तदशाक्षराणि सन्ति, तस्मात् शक्तौ सत्यां सप्तदशोपवासाः सम्बद्धाः कर्त्तव्याः, तदभावे चाष्टौ नव चोपवासाः कर्तव्याः, तथा गणनमाश्रित्याधुनिकप्रवृत्त्यनुसारेणैकान्तो। न दृश्यते, यतः कश्चिद्गणयति कश्चिन्नेति, यो गणयति स सप्तौलिकामध्ये यत्पदतपः करोति तत्पदं गणयति, तथाऽष्टमनवमपदतपः सम्बद्धं करोति तर्हि पदद्वयगणनमपि सम्बद्धं गणयति, यदि पृथक् तपः करोति तर्हि पदद्वयगणनमपि पृथग् गणयति, गणनं तु प्रतिपदं लक्षमानं ज्ञेयम् । अष्टमनवमपदयोः सम्बद्धगणनं लक्षद्वयमानं, तयोः पृथक् तपसि पृथगणनं लक्षप्रमाणम् । तथा-कश्चिद्यदा यत्पदतपः करोति स तदा तत्पद्गणनं द्विसहस्रमानं गणयति, तस्माद्यस्य यादृशी शक्तिः स ताम्गणनं विधत्त इति ॥ १०॥ तथा-साधुर्मध्याह्नकाजकमुद्धृत्य परिष्ठापयत्यन्यथा वा इति प्रश्नोत्रोचरं-चतुर्मासके साधुर्मध्याह्नकाजकमुद्धृत्य परिष्ठापयतीति परम्परा श्रीहीरविजयसूरिपार्श्वे दृष्टास्तीति ॥ ११ ॥ तथा—जगतीपार्श्वे मक्षिकापक्षप्रमाणं जलं कथितमस्ति, तत्र सर्वदा मक्षिकापक्षप्रमाणं किंवा वेलाया आगमने न्यूनाधिकं वा भवतीति प्रश्नोत्रोत्तरं-मक्षिकापक्षप्रमाणं यत्र जलमस्ति तत्र सर्वदा सदृशं भवति, परं वेलाप्रयोगेण न्यूनाधिकं ज्ञातं नास्तीति ॥ १२ ॥ Jan Educa tional For Private 3 Personal Use Only A w.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy