________________
सेनप्रों उल्लासः
मुलतान ५७-५९
॥१०७॥
तथा–वर्षाकाले प्रतिक्रमणादिषु विद्युद्द्योतिका लगति न वा इति प्रश्नोत्रोत्तरं-श्रीविजयदानसूरिपार्श्वे श्रीहीरविजयत्रिपार्श्वे च शेषकाले वर्षाकाले च प्रतिक्रमणयोगानुष्ठानादिक्रियायां विद्युदद्योतिका लगति, क्रिया सातीचारा भवति, कालो गृहीतो गच्छतीति श्रुतमस्ति ॥ ५३॥
तथा-आश्विनास्वाध्यायिकादिनत्रयमुपदेशमालादि न गण्यते, तथा चतुर्मासकत्रयास्वाध्यायिकायां तद्गण्यते न वा इति प्रश्नोत्रोत्तरंयथा तदस्वाध्यायिकायां दिनत्रयमुपधानमध्ये न तथा चतुर्मासकत्रये, तस्माच्चतुर्मासकत्रयास्वाध्यायिकायामुपदेशमालादि गण्यते ॥ ५४॥
तथा-पदस्थं विना स्थापनाग्रे प्रतिक्रमणं क्रियते तदा क्षामणकविधिः कथमिति प्रश्नोत्रोत्तरं-स्थापनाग्रे प्रतिक्रमणकरणे प्रथम | स्थापनाचार्यस्य पश्चाद् वृद्धानुक्रमेण यतिद्वयस्य चतुष्कस्य षट्कस्य च क्षामणकं क्रियते, यतिं विना स्थापनाया एवेति ॥ ५५ ॥
तथायुगलिकक्षेत्रतिर्यञ्चः कल्पवृक्षाहारं कुर्वन्त्यन्यद्वेति प्रश्नोऽत्रोत्तरं-गोप्रभृतयः कल्पवृक्षाहारं कुर्वन्ति, तथाऽन्यद्धान्यतृणादिक- | मपि कुर्वन्तीति सम्भाव्यत इति ॥ १६ ॥
अथ मुलतानसङ्घकृतानुयोजनानि तत्पतिवचांसि च । यथा-तथा सर्वैः पाक्षिकप्रतिक्रमणे परम्परया शान्तिरवश्यं कथ्यते, कैश्चित्पुनरन्यस्मिन् दिनेऽपि कथ्यते तत्किमस्तीति प्रश्नोऽत्रोत्तरं-पाक्षिकप्रतिक्रमणे परम्परया शान्तिरवश्यं कथ्यते, अन्यस्मिन् दिने तु कथनमाश्रित्य नियमो ज्ञातो नास्तीति ॥ १७ ॥ । तथा-कश्चित्पारणकोत्तरपारणकयोश्चैकाशनकं विना 'सरे उग्गए अभत्तदै प्रत्याख्याति ' यदा पारणकोत्तरपारणकयोश्चैकाशनं करोति | तदा चउत्थभत्तं प्रत्याख्यातीति रीतिदृश्यते, तथा छट्ठभत्तं इत्यादिकस्थाने तु नास्ति, तत्र पारणकोत्तरपारणकयोश्चैकाशनं विनापि छटुभत्तं | इत्यादि प्रत्याख्याति, तत्र को हेतुरिति प्रश्नोत्रोत्तरं-यदा एकाशनकसहितोपवस्त्रं करोति तदा 'सूरे उग्गए चउत्थभत्तं अभत्तटुं' प्रत्या
॥१०७॥
Jain Educational
For Private & Personal Use Only
Bw.jainelibrary.org