SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Jain Educa चतुर्थीप्रतिमात आरम्य चतुष्पवपौषधं करोति तदा मुख्यवृत्या पाक्षिकपूणिमयोश्चतुर्विधाहारषष्ठ एव कृतो युज्यते कदाचिच्च यदि सर्व्वथा शक्तिर्न भवति तदा पूर्णिमायामाचामाम्लं निर्विकृतिकं वा क्रियते, एवंविधाक्षराणि सामाचारीग्रन्थे सन्ति, परमेकाशनकं शास्त्रे दृष्टं नास्तीति ॥ ४२ ॥ तथा - काञ्जिकटकादिशाकं तथा दधिप्रमुखगोरसं चैकरात्रिं व्यतिक्रम्य द्वितीयरात्रावभक्ष्यं भवत्युत षोडशप्रहरानन्तरमभक्ष्यं भवतीति प्रश्नोऽत्रोत्तरं - योगशास्त्रत्यादिग्रन्थेषु 'दध्यहर्द्वितयातीत 'मिति वचनाद् दिवसद्वयातिक्रमादध्यादिगोरसं न कल्पते इत्यक्षराणि सन्ति, तस्यार्थस्तु परम्परया एवं कथ्यते यद्रात्रिद्वयातिक्रमानन्तरं न कल्पते, परं षोडशप्रहरानन्तरं न कल्पते एवंविधाक्षराणि शास्त्रे न दृश्यन्ते, काखिकवटकादिशाकानां राजिकाप्रभृत्युत्कटद्रव्य मिश्रत्वाद्धृद्ध परम्परया चैतदेव कालमानं कथ्यते, न त्वधिकमतिप्रसङ्गाद्, अन्याक्षराणि न ज्ञातानीति ॥ ४३ ॥ तथा --- मांसमध्ये निगोदजीवा उत्पद्यमानाः कथितास्सन्ति, तथा-" आमासु अ पक्कासु अ, विपञ्चमाणासु मंसपेसीसु । उप्पज्जंति अणंता, तव्वण्णा तत्थ जंतुणो " ॥ १ ॥ एतद्द्वाथायां योगशास्त्रतृतीयप्रकाशमध्ये कथितमस्ति यन्निगोदशब्देन शरीरं कथ्यतेऽतो मांसमध्ये शरीरिणो अनन्ता जीवा उत्पद्यन्ते तच्छरीराणि कानि मांसमेव शरीरतया परिणमति, तद्रूपाणि किंवाऽसङ्ख्यातानि शरीराणि उत्पद्यन्ते ! तानि तेषामप्यनन्तशरीरिणामाबाधोत्पद्यते न वा इति प्रश्नोऽत्रोत्तरं -मांसमध्ये रसजद्वीन्द्रियजीवा अनेके उत्पद्यमानाः सम्भाव्यन्ते, तथा ' आमासु अ पक्कासु अ ' | एतद्द्वाथायां ये निगोदजीवा उत्पद्यमानाः कथिताः सन्ति, तत्र निगोदशब्देन सूक्ष्मजीवा एवमर्थः परम्परया कथ्यमानोऽस्ति परं साधारणवनस्पतिवदनन्तजीवाश्रय एकशरीरं निगोद एवंविधोऽर्थः कथ्यमानो नास्ति, यतः प्रतिक्रमणसूत्रवृत्तौ मांसमध्ये तद्वर्णा अनेके जीवा उत्पद्यमानाः कथिताः सन्ति, परमनन्ता असङ्ख्याता न कथितास्तस्मादनन्ता असङ्ख्याता यत्र कथिताः सन्ति तत्रानन्तासङ्ख्यातशब्देन बहव इत्यर्थो ज्ञेय | एवं परम्पराऽस्ति, तानि च जीवशरीराणि मांसपुद्गलतयाऽन्यपुद्गलतया च मिश्रितानि उत्पद्यमानानि सम्भाव्यन्ते, यथा तक्रारनालादिषु द्वीन्द्रिय amational For Private & Personal Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy