________________
सेनप्रभे
४ उल्लासः
॥ १०५ ॥
Jain Education
तथा - अन्तर्द्धापिवेदिकायां द्वाराणि सन्ति न वा इति प्रश्नोऽत्रोत्तरं जगत्यां द्वाराणि कथितानि सन्ति, अन्तद्वीपे तु वेदिका जगत्या स्थानेऽस्ति, अतो वेदिकायामपि द्वाराणि सम्भाव्यन्त इति ॥ ३८ ॥
तथा—चतुर्विधमिथ्यात्वमध्ये लोकोत्तरमिध्यात्वं गुरु किं वा लौकिकं प्राग्लोकोत्तराल्लौकिकं गुरुतरमिति श्रुतमभूत्, अधुना तु लौकिकालोकोत्तरं श्रूयते, तद्व्यक्त्या प्रसाद्यमिति प्रश्नोऽत्रोत्तरम् - प्रतिक्रमणसूत्रवृत्तिप्रभृतिग्रन्थेषु मिथ्यात्वं लौकिकं देवगतं गुरुगतं च तथा लोकोत्तरं देवगतं गुरुगतं चेति चतुर्विधमिध्यात्वमध्ये इदं महदिदं लध्वित्यक्षराणि तथाविधग्रन्थे न दृष्टानीति द्रव्यक्षेत्रकालभावानुसारेण कथ्यते इति ॥ ३९ ॥ तथा - साध्वी केवलज्ञानोत्पत्त्यनन्तरं छद्मस्थसाधून् वन्दते न वा इति प्रश्नोऽत्रोत्तरम् - केवलज्ञानवती साध्वी छद्मस्थसाधून् न वन्दते, यतः केवली ज्ञातस्सन् छद्मस्थसाधून् वन्दते इत्येवं शास्त्रे न दृश्यते । तथा केवलज्ञानवतीनां छद्मस्थसाधुर्वन्दते इत्यपि सम्भवन्नास्ति, यतः पुरुषः स्त्रियं वन्दते तदा लौकिकमार्गे अनुचितं दृश्यते, परमार्थतस्तु केवली सर्व्वेषां वन्दमीय एवेति ॥ ४० ॥
तथा--प्रतिष्ठितजिनप्रतिमा विक्रयकारिभिः समुच्छेदितनामलक्षणाः श्राद्धैर्द्रव्यव्ययेन गृहीताः सन्ति, तेन तन्नामोच्चारावसरे (मु) कस्य जिनस्येयं प्रतिमेति वक्तुं कथं शक्यते ? ततो यदि लक्ष्मादिकरणविधिर्भवति तर्हि तथा प्रसाद्यमिति प्रश्नोऽत्रोत्तरं - प्रतिष्ठितजिनप्रतिमानामभिधानलक्षणादि प्रायस्तु न कर्त्तव्यं, पुनः प्रतिष्ठाकर्त्तुरज्ञातत्वादिकारणेन यद्यावश्यकं कर्त्तव्यं भवति तदा तद्विधाय प्रतिष्ठितवासक्षेपादिना शुद्धिर्भवतीति ज्ञायते इति ॥ ४१ ॥
तथा -- प्रतिमाधरः श्रावकः श्राविका वा चतुर्थीप्रतिमात आरभ्य चतुष्पवपौषधं करोति तदा पाक्षिकपूणिमाषष्ठकरणाभावे पाक्षिकपौषधं विधायोपवासं करोति पूणिमायां चैकाशनकं कृत्वा पौषधं करोति तत् शुद्धयति न वा इति प्रश्नोऽत्रोत्तरं - प्रतिमाधरः श्रावकः श्राविका वा
tional
For Private & Personal Use Only
| जेसलमेरु० १-५६
॥ १०५ ॥
Jainelibrary.org