Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 227
________________ Jain Educa चतुर्थीप्रतिमात आरम्य चतुष्पवपौषधं करोति तदा मुख्यवृत्या पाक्षिकपूणिमयोश्चतुर्विधाहारषष्ठ एव कृतो युज्यते कदाचिच्च यदि सर्व्वथा शक्तिर्न भवति तदा पूर्णिमायामाचामाम्लं निर्विकृतिकं वा क्रियते, एवंविधाक्षराणि सामाचारीग्रन्थे सन्ति, परमेकाशनकं शास्त्रे दृष्टं नास्तीति ॥ ४२ ॥ तथा - काञ्जिकटकादिशाकं तथा दधिप्रमुखगोरसं चैकरात्रिं व्यतिक्रम्य द्वितीयरात्रावभक्ष्यं भवत्युत षोडशप्रहरानन्तरमभक्ष्यं भवतीति प्रश्नोऽत्रोत्तरं - योगशास्त्रत्यादिग्रन्थेषु 'दध्यहर्द्वितयातीत 'मिति वचनाद् दिवसद्वयातिक्रमादध्यादिगोरसं न कल्पते इत्यक्षराणि सन्ति, तस्यार्थस्तु परम्परया एवं कथ्यते यद्रात्रिद्वयातिक्रमानन्तरं न कल्पते, परं षोडशप्रहरानन्तरं न कल्पते एवंविधाक्षराणि शास्त्रे न दृश्यन्ते, काखिकवटकादिशाकानां राजिकाप्रभृत्युत्कटद्रव्य मिश्रत्वाद्धृद्ध परम्परया चैतदेव कालमानं कथ्यते, न त्वधिकमतिप्रसङ्गाद्, अन्याक्षराणि न ज्ञातानीति ॥ ४३ ॥ तथा --- मांसमध्ये निगोदजीवा उत्पद्यमानाः कथितास्सन्ति, तथा-" आमासु अ पक्कासु अ, विपञ्चमाणासु मंसपेसीसु । उप्पज्जंति अणंता, तव्वण्णा तत्थ जंतुणो " ॥ १ ॥ एतद्द्वाथायां योगशास्त्रतृतीयप्रकाशमध्ये कथितमस्ति यन्निगोदशब्देन शरीरं कथ्यतेऽतो मांसमध्ये शरीरिणो अनन्ता जीवा उत्पद्यन्ते तच्छरीराणि कानि मांसमेव शरीरतया परिणमति, तद्रूपाणि किंवाऽसङ्ख्यातानि शरीराणि उत्पद्यन्ते ! तानि तेषामप्यनन्तशरीरिणामाबाधोत्पद्यते न वा इति प्रश्नोऽत्रोत्तरं -मांसमध्ये रसजद्वीन्द्रियजीवा अनेके उत्पद्यमानाः सम्भाव्यन्ते, तथा ' आमासु अ पक्कासु अ ' | एतद्द्वाथायां ये निगोदजीवा उत्पद्यमानाः कथिताः सन्ति, तत्र निगोदशब्देन सूक्ष्मजीवा एवमर्थः परम्परया कथ्यमानोऽस्ति परं साधारणवनस्पतिवदनन्तजीवाश्रय एकशरीरं निगोद एवंविधोऽर्थः कथ्यमानो नास्ति, यतः प्रतिक्रमणसूत्रवृत्तौ मांसमध्ये तद्वर्णा अनेके जीवा उत्पद्यमानाः कथिताः सन्ति, परमनन्ता असङ्ख्याता न कथितास्तस्मादनन्ता असङ्ख्याता यत्र कथिताः सन्ति तत्रानन्तासङ्ख्यातशब्देन बहव इत्यर्थो ज्ञेय | एवं परम्पराऽस्ति, तानि च जीवशरीराणि मांसपुद्गलतयाऽन्यपुद्गलतया च मिश्रितानि उत्पद्यमानानि सम्भाव्यन्ते, यथा तक्रारनालादिषु द्वीन्द्रिय amational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264