Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तथा-"जो देइ कणयकोडी, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिअ पुण्णं जत्ति बंभव्वए धरिए" ॥ १॥ एतद्ब्रह्मचर्य | किं दिवससत्कं यावज्जीवसम्बन्धि वा इति प्रश्नोऽत्रोत्तरं-एतद्ब्रह्मचर्य मुख्यवृत्त्या यावज्जीवसम्बन्धि अध्यवसायविशेषेण दिवसादि| सम्बन्ध्यपीति ॥ ३२ ॥
तथा—येन नमस्कारसहितप्रत्याख्यानं कालवेलाया न कृतं तस्य पश्चात्पौरुष्यादिप्रत्याख्यानं कत्तु शुद्धयति न वा इति प्रश्नोत्रोचरंनमस्कारसहितप्रत्याख्यानं विना पौरुष्यादिप्रत्याख्यानं कर्तुं न शुद्धयत्येवंविधाक्षराणि श्राद्धविधिप्रमुखग्रन्थेषु सन्तीति ज्ञेयम् ॥ ३३ ॥
तथा–पाक्षिकचातुर्मासिकादितपः कियता कालेन प्राप्यते इति प्रश्नोऽत्रोत्तरं- यथाशक्त्या तत्तपः त्वरितमेव पूर्णीभवति तथा | विधीयते । कालनियमस्तु ग्रन्ये ज्ञातो नास्तीति ॥ ३४ ॥ NI तथा जेसलमेरुनगरे मेदिनीद्रङ्ग चोपाश्रयमध्ये श्रीहीरविजयसूरिप्रतिमाया मस्तकस्योपरि श्रीवीरप्रतिमाऽस्ति, तस्मात्तमुपाश्रयं केचन का चैत्यं कथयन्ति, तत्र किमुत्तरमिति प्रश्नोऽत्रोत्तरं यथा-श्राद्धानां गृहे जिनप्रतिमासत्त्वेऽपि न चैत्यत्वं, तथा अत्रापीति ज्ञेयम् ॥ ३५ ॥ । तथा--पक्षिकायां षष्ठं विधाय वीरषष्ठमध्ये क्षिप्यते, पाक्षिकोपवासस्तु स्वाध्यायादिना पूर्यते तदा स षष्ठस्तन्मध्ये आयाति न वा इति प्रश्नोऽत्रोत्तरं-अल्पशक्तिमता यदि पाक्षिकषष्ठो वीरषष्ठमध्ये क्षिप्यते तदा स आयाति, पाक्षिकं तप उपवासादिना पृथक् त्वरितं पूर्यते इति ३६ | तथा-वीरषष्ठपारणके द्वयशनादि विधीयते किं वा यथाशक्त्ये (क्ती)ति प्रश्नोऽत्रोत्तरं-यथाशक्त्या (क्ति) विधीयत इति ॥ ३७ ॥
१ प्राक्कायद्याहारि द्वितीयां पञ्चमी दशमी यावदिति ।
For Private
Personal Use Only
anelorery.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264