Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 224
________________ सेनप्रभे ४ उल्लासः ॥ १०४ ॥ Jain Educat तथा - श्राविका जिनालये चैत्यवन्दनां विधायोर्ध्व स्थिता सत्येक नमस्कारकायोत्सर्गं कृत्वा चैकां स्तुतिं कथयत्येताद्वधिः क्वास्तीति प्रश्नोऽत्रोत्तरं - एतद्विधिर्भाष्यावचूरिमध्ये चैत्यवन्दनाधिकारे कथितोऽस्ति, परमेतद्विधिकरणप्रवृत्तिरधुना श्राविकामध्ये दृश्यत इति ॥ २६ ॥ तथा - “ जं छम्मासिअवरसिअतवेण तिव्वेण जिज्झए पार्वं । नवकारअणणुपुन्वीगुणणे य तयं खणद्वेणं " ॥ १ ॥ एतद्वाया कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-इयं गाथा श्रीजिनकीर्त्तिसूरिकृते अनानुपूर्व्वगणनस्वरूपाविर्भावक नमस्कारस्तवेऽस्तीति ॥ २७ ॥ तथा - तीर्थङ्कराः केवलिसमुद्घातं कुब्र्वन्ति न वा इति प्रश्नोत्रोत्तरं - गुणस्थानक्रमारोह प्रकरणानुसारेण तीर्थङ्कराः केवलसमुद्यातं कुर्व्वन्ति तेषामवश्यं पण्मासाधिकायुषि केवलोत्पत्तेः, यदुक्तं तत्र - " यः पण्मासाधिकायुष्को, लभते केवलोद्गमम् । करोत्यसौ समुद्घातमन्ये कुर्व्वन्ति वा न वा " ॥ १ ॥ इति । प्रज्ञापनाद्यनुसारेण तु यस्यायुषो वेदनीयादिकम्र्म्माधिकं भवति स करोति, इतरश्च नेति ॥ २८ ॥ तथा — यथा चतुर्दशपूर्व्वधरा दशपूर्व्वधराः नवपूर्व्वधरा वा दृश्यन्ते, तथा द्विपूर्व्वधराश्चतुपूर्व्वधराः पञ्चपूर्व्वधराः वा भवन्ति न वा इति प्रश्नोत्रोत्तरं - जीतकल्पसूत्र वृत्त्यादावाचारप्रकल्पाद्यष्टपूर्व्वान्तस्य श्रुतव्यवहारस्योक्तत्वादेकद्वयादिपूर्व्वधरा अपि भवन्तीति ज्ञायते ॥ २९ ॥ तथा — कश्चिद्वक्ति - श्राद्धस्य ग्रहणशिक्षा कथिताऽस्ति तत्रोत्कृष्टतः षड्जीवनिकायसूत्रार्थं पिण्डैषणालापकं च शृणोति, अधुना तु अङ्गोपाङ्गादिसूत्रार्थी श्रान्येते, तत्कुत्रास्तीति प्रश्नोऽत्रोत्तरं - व्याख्यानादौ मुख्यवृत्त्या यत्युद्देशेन श्राव्यमाणमङ्गोपाङ्गादि तत्पृष्ठलग्नाः श्राद्धादयोऽपि शृण्वन्तीति न काप्याशङ्का । यत्तु केवलश्राद्धानां सिद्धान्तश्रावणं तत्कारणिकमिति बोध्यम् ॥ ३० ॥ तथा - श्री ऋषभदेवेन साकं यैर्दशसहस्रमुनिभिर्भक्तं प्रत्याख्यातं ते कियता कालेन सिद्धासन्तीति प्रश्नोत्तरं - ऋषभदेवेन साकं दशसहस्रमुनयोऽभिनिन्नक्षत्रे सिद्धास्तन्तीत्येतदक्षराणि वसुदेवहिण्ड्यादौ वर्त्तन्त इति बोध्यम् ॥ ३१ ॥ tional For Private & Personal Use Only जेसलमेरु० १-५६ ॥ १०४ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264