SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सेनप्रों ४ उल्लासः ॥१०३॥ तथा-महाविदेहेषु ये श्राद्धा देशवतिनस्ते उभयकालमावश्यकं कुर्वन्ति, किं वा यतिवत्कारणे समुत्पन्ने कुर्वन्तीति प्रश्नोऽत्रोत्तरं- जेसलमरु० “ देसिअ राइअ पक्खिअ चउमासिअ वच्छरी अ नामाओ । दुण्डं पण पडिकमणा मज्झिमगाणं तु दो पढमा" ॥ १ ॥ इति सप्ततिशत- १-५६ स्थानकस्थगाथानुसारेण यदि यतीनां देवसिकरात्रिकप्रतिक्रमणद्वयकरणं प्रत्यहं दृश्यते, तर्हि श्रावकाणां तत्करणे किं वक्तव्यमिति ॥ १४ ॥ तथा-अष्टौ गोस्तनाकारा जीवप्रदेशास्सन्ति तेषां कर्मवर्गाणा लगति न वा इति प्रश्नोऽत्रोत्तरं-जीवानां मध्याष्टप्रदेशानां कर्मवर्गणा न लगतीति ज्ञानदीपिकायां प्रोक्तमस्ति, यथा “ स्पृश्यन्ते कर्मणा तेऽपि, प्रदेशा आत्मनो यदि । तदा जीवो जगत्यस्मिन्नजीवत्वम| वाप्नुयात् " ॥ १ ॥ ॥ १५ ॥ तथा—समये समये अनन्ता हानिः कथ्यते सा किं वस्त्वाश्रित्येति प्रश्नोऽत्रोत्तरं-अवसप्पिणीकाले वर्णगन्धरसस्पर्शादिपर्यायाणाम| नन्ता हानिः कथ्यते, एवंविधभावो जम्बूद्वीपप्रज्ञप्तिवृत्तावस्तीति ॥ १६ ॥ | तथा-श्रीआदिनाथवारके यं चतुर्विंशतिस्तवं पठितवन्तस्तमेव श्रीमहावीरवारके पठितवन्त उतान्यमिति प्रश्नोऽत्रोत्तरं-श्रीआदिनाथवारके | यं चतुर्विशतिस्तवं पठितवन्तस्तमेवार्थतः श्रीमहावीरवारकेऽपि, परं सूत्रपाठनियमो नास्तीति परम्परास्तीति, युक्तिरपि च तथैव दृश्यते ॥ १७ ॥ तथा-ये केचन रात्रिभोजनप्रत्याख्यानिनो घटिद्वयशेषे दिवसे भोजनं कुर्वन्ति तेषां रात्रिभोजनप्रत्याख्यानभङ्गो भवति न वा इति, Iy | प्रश्नोऽत्रोत्तरं-घटीद्वयशेषे दिवसे भोजनं कुर्वतां रात्रिभोजनस्यातीचारो लगति, न तु तद्भङ्ग इति ॥ १८ ॥ १'तं दुष्हमुभयकालं इयरार्ण कारणे इउ मुणिणो' इति पाठात् मुनीना कारणे जाते प्रतिक्रान्तावपि श्रावकाणां न तथा, किन्तु मुनीनामेवेति कुर्वन्त्येवोभयसन्ध्यं धावकाः प्रतिक्रांतिमिति । Jain Educat For Private Personal Use Only ainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy