________________
तथा-कसेल्लकपानीयं त्रिविधाहारप्रत्याख्यानिनां पातुं शुद्धयति न वा इति प्रश्नोऽत्रोत्तरं-त्रिविधाहारप्रत्याख्यानिनां तत्पानीयपानं शुद्धयति, परमात्मनामाचरणा नास्तीति ।। १९ ॥
तथा-पक्वान्नग्रहणकालः कुत्र ग्रन्थेऽस्तीति प्रश्नोऽत्रोत्तरं-पक्कान्नग्रहणकालः श्राद्धविधी कथितोऽस्तीति ॥ २० ॥
तथा-श्रीस्थूलभद्रस्य नाम चतुरशीतिं चतुर्विशतीर्यावत्तिष्ठति तत्कुत्र ग्रन्येऽस्तीति प्रश्नोत्रोत्तरं-श्रीस्थूलभद्रस्य नाम चतुरशीति चतुर्विशतीर्यावत्तिष्ठति इति तच्चरित्रादिष्वस्तीति बोध्यम् ॥ २१॥
तथा- नव रसविगइओ अभिक्खणं २ न आहारेइ ' इति कल्पसूत्राक्षरानुसारेण नव रसविकृतयो बलवर्द्धनार्थ प्रत्यहं ग्रहणतया | निषिद्धाः सन्ति, परं तहणाचरणाऽस्ति नवा इति, प्रश्नोत्रोत्तरं-या अभक्ष्यविकृतयस्ताः सम्बन्धपाठत्वान्निबद्धास्सन्ति, न वाचर
णेति बोध्यम् ॥ २२ ॥ | तथा-श्रीकल्पसूत्रं श्रीमहावीराद्नु नवशताशीतिवर्षातिकमे देवर्द्धिगणिक्षमाश्रमणैलिपितया पुस्तकारूढं चक्रे, ततः पुराऽन्यत्किमपि
पुस्तकमभन्न वा इति प्रश्नोत्रोत्तरं-सर्वोऽपि सिद्धान्तो देवद्धिंगणिक्षमाश्रमणैर्नवशताशीतिवर्षातिक्रमे पुस्तकारुढः कृतस्ततः पुराऽन्यपुस्तकानि | बहून्यभवन्निति ॥ २३ ॥
तथा-सुलसया द्वात्रिंशत्पुत्रा युगपत्प्रसूतास्तत्सत्यं न वा इति प्रश्नोऽत्रोत्तरं-सुलसया द्वात्रिंशत्पुत्रा युगपत्प्रसूतास्तत्सत्यं, तदक्षराण्यपि | वीरचरित्रादिषु सन्तीति ॥ २४ ॥
तथा—येषां कटाहविकृतिप्रत्याख्यानं भवति तेषां डोलियाख्यतैलतलितपक्वान्नादिकं कल्पते न वा इनि प्रश्नोत्रोचर--डोलियाख्यका तैलं विकृतिन भवति, तेन तत्तैलनिष्पन्नं पक्वान्नाद्यपि विकृतिर्न भवतीति ॥ २५ ॥
Jain Educa
t
ional
For Private & Personel Use Only
Iw.jainelibrary.org