Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 221
________________ तथा-त्रयोदशगुणस्थानके सातवेदनीयकर्मणः स्थितिबिसमयप्रमाणा कुत्रचित्कथिताऽस्ति सा कथं घटते ! यतो भगवत्यादिषु त्रिसमN यस्थितेरुक्तत्वादिति प्रश्नोत्रोत्तरं-त्रयोदशगुणे सातवेदनीयकर्म प्रथमसमये बध्यते द्वितीयसमये वेद्यते तृतीयसमये निर्यिते इति श्रीभगवतीसूत्रस्थानाङ्गसूत्रादिषु प्रोक्तमस्ति, परं निर्णिनसमयेऽवस्थानाभावाद् द्विसमयस्थितिघंटते इति ज्ञेयम् ॥ १० ॥ तथा-शकेन्द्रस्य कणिकराजा पूर्वसङ्गतिकश्चमरेन्द्रस्य च प्रव्रज्यासङ्गतिकः प्रतिपादितोऽस्ति तत्कथं मिलति इति प्रश्नोऽत्रोत्तरंसौधर्मेन्द्रस्य कार्तिकश्रेष्ठिभवे कूणिकराज्ञो जीवो गृहस्थत्वेन मित्रमस्तीति तेन पूर्वसङ्गतिकः, चमरेन्द्रस्य तु पूरणतापसभवे कूणिकजीवः | तापसत्वेन मित्रं तेन पर्यायसङ्गतिकः कथितोऽस्तीति श्रीभगवतीसूत्रसप्तमशतकनवमोद्देशकवृत्तौ इति बोध्यम् ॥ ११ ॥ न तथा-असालिको जीवश्चक्रवर्त्यादिस्कन्धावाराध उत्पद्यते स द्वीन्द्रियः पञ्चेन्द्रियो वा ! चेत्संमूछिमपञ्चेन्द्रियस्तदा तस्य देहमानं * विचार्यमाणं विघटते, यत उरःपरिसर्पस्योत्सेधाङ्गुलनिष्पन्नयोजनपृथक्त्वदेहमानं प्रोक्तमस्तीति प्रश्नोत्रोत्तरं-जीवसमासपकरणवृत्तौ द्वीन्द्रियो जीवाभिगमपन्नवणासूत्रवृत्तिमध्ये तु सम्मूछिमपञ्चेन्द्रियः प्रोक्तोऽस्ति, अत्रार्थे निर्णय केवलिनो विदन्तीति, शरीरमानमाश्रित्य तु सरीरमुस्सेहअंगुलेण तहा' इत्येतस्य प्रायिकत्वात्प्रमाणाङ्गुलेनासालिकस्य देहमानं सम्भाव्यते, यतो महाविदेहे चक्रवर्तिप्रभृतिस्कन्धावारो द्वादशयोजनप्रमाणः प्रमाणाङ्गुलेन प्रोक्तोऽस्तीति ज्ञेयम् ॥ १२ ॥ तथा-स्वयम्भूरमणसमुद्रस्योपरि ये ज्योतिष्कास्सन्ति तेषां राजधानी उत्पातस्थानं च वास्तीति प्रश्नोऽत्रोत्तरं-स्वयम्भूरमणसमुद्रस्योपरिस्थज्योतिप्काणां राजधानी स्वयम्भरमणसमुद्रमध्येऽस्तीति जीवाभिगमे उक्तमस्ति, तेषामुत्पातस्थान स्वस्वविमानेऽस्ति प्रज्ञापनोपाङ्गादिष्विति ॥ १३ ॥ en Education interna For Private Personal use only A lainelibrary.org.

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264