Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 220
________________ सेनप्रश्ने उल्लासः जेसलमेरु०। १-५६ ॥१०२॥ तावत्काल सम्यक्त्वप्राप्त्यनन्तरं जीवः संसारमध्ये तिष्ठति, एवंविधो भावो ज्ञातोऽस्ति, परमर्द्धलोकाकाशप्रदेशाननुक्रमेण मरणेन कृत्वा स्पृशत्येवंविधो भावो ज्ञातो नास्तीति ॥ ७॥ . तथा-श्रीधर्मघोषसूरिकृतदुप्पमासनस्तोत्रदीपालीकल्पगुर्वावलीपर्यायकालसप्ततिकाप्रमुरूग्रन्थेषु चतुरधिकद्विसहस्रयुगप्रधानानां सङ्ख्या कथिताऽस्ति, तथा–युगप्रधानसमानाचार्योत्तमगुणधारकाचार्यमध्यमगुणधारकाचार्योपाध्यायसाधुसाध्वीश्रावकश्राविकाणामपि सङ्ख्या | कथिताऽस्ति, साऽऽत्मज्ञातमात्रभूमिकामध्ये सम्भाव्यते किं वा सकलभरतक्षेत्रमध्ये ? तथा श्रीसुधर्मस्वामिभ्यः श्रीदुष्प्रसहसूरीन् यावत् युगप्रधानानां | | सङ्ख्या पट्टपरम्परयाऽन्यथा वा ? इति प्रश्नोऽत्रोत्तरं-युगप्रधानप्रमुखसङ्ख्या कथिताऽस्ति सा सकलभरतक्षेत्रमध्ये शास्त्रानुसारेण ज्ञायते, तथा पट्टपरम्परया युगप्रधानसङ्ख्या भवत्येवंविधाऽक्षराणि न दृष्टानीति ॥ ८ ॥ तथा-पण्डितश्रीवानर्षिगणिकृतप्रकरणमध्ये 'खीणे खायगसम्म, खायगचरणं च वा कहि' एतद्गाथायां क्षायिकसम्यक्त्वं क्षायिकचारित्रं च द्वादशगुणस्थानकादारभ्य चतुर्दशगुणं यावद् भवति, तथा-पञ्चनिर्ग्रन्थीकर्मग्रन्थयोर्मध्ये क्षायिकसम्यक्त्वं क्षायिकचारित्रं चैकादशगुणादारभ्य चतुर्दशगुणं यावद्भवति तत्कथं मिलति, यतः क्षपकश्रेणिधनिको दशमगुणाद् द्वादशगुणमागच्छति तदा एकादशगुणे क्षायिकसम्यक्त्वक्षायिकचारित्रयोरसम्भवादिति ? प्रश्नोऽत्रोत्तरं-पञ्चनिग्रन्थीकर्मग्रन्थयोर्मध्ये एकादशगुणे क्षायिकसम्यक्त्वं कथितमस्ति परं क्षायिकचारित्रं कथितं नास्ति तथा क्षायिकसम्यक्त्वधनिक उपशमश्रेणिं चढति तदैकादशगुणे क्षायिकसम्यक्त्वं भवति क्षायिकचारित्रं त्वेकादशगुणे नास्त्येवेति बोध्यम् ॥ ९ ॥ Jain Education For Private & Personal Use Only inelibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264