Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 215
________________ अथ गणिभाणविजयसूरिशिष्यगणिजीवविजयकृतप्रश्नास्तदुत्तराणि च । यथा-साधूनां रोगोत्पत्तावन्यः कश्चिदशनाद्यानेता नास्ति तर्हि साध्वी तमानीय समर्पयति किं वा श्राद्धादिरित प्रश्नोत्रोचर-तथाविधकारणे यतनया साध्व्यानीतमप्याहारमनिकापुत्राचार्यवत्साधवो गृह्णन्ति, श्राद्धाद्यानीताहारं तु न गृहन्त्येवेति ॥ ४८९ ॥ तथा-कश्चिद् ज्ञातेर्बहिरस्ति, तस्य गृहेऽशनादिग्रहणं कारणं विना कल्पते नवेति प्रश्नोत्रोत्तरं-छोकविरुद्धमहापवादे सति यो ज्ञातेमहिष्कृतस्तस्य गृहे तथाविधकारणं विना न कल्पत इति ॥ ४९.॥ तया-श्रीचन्द्रप्रभचरित्रमध्ये अनापुत्रेणाऽग्निखातिकामध्ये झम्पां चक्रे इत्युक्तमस्ति तत्किमिति, तथा दुर्जयराजा तत्र गतस्तद्भवनं कथ्यते किं वा पातालगृहं, तस्माद्धस्ती अपहृत्य गतस्तत्र नरका दर्शिताः पश्चाद्देवतया बहिर्मुक्तः सर्वाङ्गसुन्दर्याः पार्थे गतः, तत्र किं भवनपतिीनकाये किं व्यन्तरनिकाये वा ! तथा दुर्जयराजा कुत्र भवनमध्येऽस्ति, सर्वाङ्गसुन्दरी च ततोऽधः कुत्रास्ति, तथाऽष्टापदे गतस्तत्रेन्द्रेण वस्त्राणि समर्पितानि तानि किं वैक्रियाण्यौदारिकाणि वा इति, प्रश्नोत्रोत्तरं-अजापुत्रेणाग्निखातिकामध्ये सम्पा दत्ता फलंप दिव्यानुभावेन प्राप्तं, तथा दुर्जयराज्ञो वासस्थान भूमिकाविवरमध्ये मनुष्यसम्बन्धिन्यां राजधान्यामस्ति, तथा-सर्वाङ्गसुन्दरी व्यन्तरी, तद्बासस्थानं व्यन्तरनिकायेऽस्ति, तथा हस्ती अपहृत्य गत इत्यादि सर्व तद्विलसितं ज्ञेयम्, तथा अष्टापदे वस्त्राण्यर्पितानि तान्यौदारिकाणि ज्ञेयानि इति ॥ ४९१॥ तथा-श्राद्धा देवद्रव्यं व्याजेन गृहन्ति न वा ! इति प्रश्नोऽत्रोचर-महत्कारणं विना न गृह्णन्ति इति ॥ ४९२ ॥ Jain Educ a tional For Private Personal Use Only Huaw.jainelibrary.org

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264