________________
अथ गणिभाणविजयसूरिशिष्यगणिजीवविजयकृतप्रश्नास्तदुत्तराणि च । यथा-साधूनां रोगोत्पत्तावन्यः कश्चिदशनाद्यानेता नास्ति तर्हि साध्वी तमानीय समर्पयति किं वा श्राद्धादिरित प्रश्नोत्रोचर-तथाविधकारणे यतनया साध्व्यानीतमप्याहारमनिकापुत्राचार्यवत्साधवो गृह्णन्ति, श्राद्धाद्यानीताहारं तु न गृहन्त्येवेति ॥ ४८९ ॥
तथा-कश्चिद् ज्ञातेर्बहिरस्ति, तस्य गृहेऽशनादिग्रहणं कारणं विना कल्पते नवेति प्रश्नोत्रोत्तरं-छोकविरुद्धमहापवादे सति यो ज्ञातेमहिष्कृतस्तस्य गृहे तथाविधकारणं विना न कल्पत इति ॥ ४९.॥
तया-श्रीचन्द्रप्रभचरित्रमध्ये अनापुत्रेणाऽग्निखातिकामध्ये झम्पां चक्रे इत्युक्तमस्ति तत्किमिति, तथा दुर्जयराजा तत्र गतस्तद्भवनं कथ्यते किं वा पातालगृहं, तस्माद्धस्ती अपहृत्य गतस्तत्र नरका दर्शिताः पश्चाद्देवतया बहिर्मुक्तः सर्वाङ्गसुन्दर्याः पार्थे गतः, तत्र किं भवनपतिीनकाये किं व्यन्तरनिकाये वा ! तथा दुर्जयराजा कुत्र भवनमध्येऽस्ति, सर्वाङ्गसुन्दरी च ततोऽधः कुत्रास्ति, तथाऽष्टापदे गतस्तत्रेन्द्रेण वस्त्राणि समर्पितानि तानि किं वैक्रियाण्यौदारिकाणि वा इति, प्रश्नोत्रोत्तरं-अजापुत्रेणाग्निखातिकामध्ये सम्पा दत्ता फलंप दिव्यानुभावेन प्राप्तं, तथा दुर्जयराज्ञो वासस्थान भूमिकाविवरमध्ये मनुष्यसम्बन्धिन्यां राजधान्यामस्ति, तथा-सर्वाङ्गसुन्दरी व्यन्तरी, तद्बासस्थानं व्यन्तरनिकायेऽस्ति, तथा हस्ती अपहृत्य गत इत्यादि सर्व तद्विलसितं ज्ञेयम्, तथा अष्टापदे वस्त्राण्यर्पितानि तान्यौदारिकाणि ज्ञेयानि इति ॥ ४९१॥
तथा-श्राद्धा देवद्रव्यं व्याजेन गृहन्ति न वा ! इति प्रश्नोऽत्रोचर-महत्कारणं विना न गृह्णन्ति इति ॥ ४९२ ॥
Jain Educ
a
tional
For Private Personal Use Only
Huaw.jainelibrary.org