SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सेमी उल्लासः गणिभाण |४८९-४९५ | गणिसूर० |४९६-४९७ ॥१०॥ तथा-जिनालयकार्यकर्तुः आत्मीयं कार्य दीयते न वा इति प्रश्नोत्रोत्तरं-जिनालयसत्यापकेन स्वकीयकार्य न कार्यत इति ॥ ४९३ ।। तथा-ज्ञानद्रव्यममारिद्रव्यं च जिनगृहकायें आयाति न वा इति प्रश्नोऽत्रोत्तरं-ज्ञानद्रव्यं जिनालयकार्ये आयातीति अक्षराण्युपदेशचिन्तामणौ सन्ति, अमारिद्रव्यं तु महत्कारणं विना न समायातीति ज्ञायते ॥ ४९४ ॥ तथा-एकप्रहरदिवसचढनादनु पौषधग्रहणं शुद्धयति न वा इति प्रश्नोत्रोत्तरं-प्रहरदिवसादनु पौषधग्रहणं न शुद्ध्यतीति परम्प. राऽस्तीति ॥ ४९५॥ अथ गणिसूरविमलकृतप्रश्नौ तदुत्तरे च । यथा-जिनकल्पिकानां किं प्रायश्चित्तमायातीति प्रश्नोऽत्रोत्तरं-“पंचेव संजया खलु, नायसुएण कहिया जिणवरेणं । तेसि | पायच्छित्तं, अहक्कम कित्तइस्सामि" ॥ १ ॥ ज्ञातसुतेन जिनवरेण वर्द्धमानस्वामिना पञ्चैव खलु संयताः कथिताः, तेषां यथाक्रमं प्राय- | श्चित्तं कीर्तयिष्यामि, तदेव कीर्तयति “ सामाइयसंजयाणं, पच्छित्ता छेदमूलरहिअट्ट । थेराण जिणाणं पुण, तवमंतं छविहं होइ " ॥२॥ सामायिकसंयतानां स्थविराणां स्थविरकल्पिकानां छेदमूलरहितानि शेषाण्यष्टौ प्रायश्चित्तानि भवन्ति, जिनानां-जिनकल्पिकानां पुनः सामायिकसंयतानां तपःपर्यन्तं षड्विधं प्रायश्चित्तं भवति, “ छेदोवट्ठावणिए, पायच्छित्ता हवंति सव्वेवि । थेराण जिणाणं पुण मूलतं अट्टहा होइ" ॥ ३ ॥ छेदोपस्थापनीये संयमे वर्तमानानां स्थविराणां साण्यपि प्रायश्चित्तानि भवन्ति, जिनकल्पिकानां पुनः मूलपर्यन्तमष्टधाभवति, “ परिहारविसुद्धीए, मूलंता अट्ट होति पच्छित्ता । थेराण जिणाणं पुण, छव्विह छेयादिवजं वा" ॥ ४ ॥ परिहारविशुद्धिके संयमे वर्त्त Tal॥१oon Join Education International For Private Personel Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy