________________
मानानां स्थविराणां मूलान्तान्यष्टौ प्रायश्चित्तानि भवन्ति, जिनानां पुनः छेदवर्ज षड्विधं “ आलोअणा विवेगो य, तइयं तु न विजई । सुहुमे अ संपराए, अहक्खाए तहेव अ" ॥५॥ सूक्ष्मसम्पराये यथाख्याते च संयमे वर्तमानानां आलोचना विवेक इत्येवंरूपे द्वे प्रायश्चित्ते भवतः, तृतीयं तु न विद्यते, ततः प्रस्तुते किमागतमिति चेदाह-“बउसपडिसेवया खलु, इत्तरि छेया य संनया दोणि । जा तित्थणुसज्जन्ती, अत्थि हु तेणं तु पच्छित्तं " ॥ ६॥ निर्ग्रन्थचिन्तायां बकुशः प्रतिसेवकः-प्रतिसेवनाकुशीलः इत्येतौ द्वौ निम्रन्यौ संयतचिन्तायां इत्वरी-इत्वरसामायिकवान् छेदोपस्थाप्यश्चेति द्वौ संयमौ यावत्तीर्थ तावदनुषजतो ऽनुवर्तेते, तेन ज्ञायते सम्प्रत्यपि प्रायश्चित्तगतमस्तीति व्यवहारटीकायां, एतद्नुसारेण जिनकरिपकानां मूलपर्यन्तमष्टधा प्रायश्चित्तं भवतीति ॥ १९ ॥
तथा-युगलिकक्षेत्रे कल्पवृक्षा वनस्पतिरूपा पृथ्वीकायरूपा वा इति प्रश्नोऽत्रोत्तरं-ते वनस्पतिरूपा इति ॥ ४९७ ॥
इति सकलसूरिपुरन्दरपरमगुरुगच्छाधिराजभट्टारकश्रीविजयसेनसूरिप्रसादीकृतप्रश्नोत्तरसंग्रहे भट्टारकश्रीश्रीहीरविजयसूरिशिष्यपण्डितशुभविजयगणिविरचिते विबुधगणिविनिर्मितप्रश्नाख्यः
तृतीयोल्लासः सम्पूर्णः॥
For Private Personal use only
Sr.jainelibrary.org