Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 214
________________ सेनमभे ३ उल्लासः ॥ ९९ ॥ Jain Education तथा — सूक्ष्मपृथ्वीप्रमुखाः पश्च स्थावरास्सन्ति, तेष्वग्निस्तम्भादिकं भित्त्वा को जीवो यातीति प्रश्नोऽत्रोत्तरं - अग्निस्तम्मादिकं कश्चिचाल - यति तदा ते पञ्चापि सूक्ष्मा अग्निस्तम्भादिकस्य यामि सूक्ष्मविवरणानि सन्ति तैः कृत्वा तत्रस्था एव तिष्ठन्ति, अग्निस्तम्भादिकैर्न चाश्यते, स्थावरस्वादिति, अग्निस्तम्भादिके तु स्वात्मना तेषां प्रवेशो न सम्भाव्यत इति ॥ ४८३ ॥ तथा - तामलितापसेन सम्यक्त्वं क प्राप्तमिति प्रश्नोऽत्रोत्तरं श्रीभगवती सूत्रानुसारेण ईशानेन्द्रो भूत्वा पश्चात्सम्यक्त्वं प्राप्तमस्ति, प्रोवस्तु तामलिभवप्रान्ते प्राप्तमिति श्रूयते ॥ ४८४ ॥ तथा -- श्रेणिकराज्ञः पुत्रो नन्दिषेणनामा देवलोके गतोऽस्त्यथवा मोक्षे इति प्रश्नोऽत्रोत्तरं - वीरचरित्राद्यनुसारेण देवलोके गतोऽस्ति, महानिशीथमध्ये तु चरमशरीरी कथितोऽस्तीति ॥ ४८५ ॥ अथ पण्डितज्ञानसागरगणिकृतप्रश्नास्तदुत्तराणि च । यथा-अन्यग्रामादागत्य पौषधं लात्वा पुनस्तत्र याति न वा इति प्रश्नोऽत्रोत्तरं - पौषधविधिना याति तदा निषेधो ज्ञातो नास्तीति ॥४८६ ॥ तथा - ' संथारय उट्टणकिय' इत्यस्य कोऽर्थः तथापसारणकिय इत्यस्यापि कोऽर्थ इति व्यवस्था प्रसाद्यमिति प्रश्नोत्तरं - 'संथारय उण किय' इत्यत्र संस्तार केऽविधिना उट्टण इति उद्वर्त्तनं पार्श्वपरावर्त्तनं ' किय' इति कृतं, तथा 'पसारण किय' इत्यत्र भविधिना हस्तादेः प्रसारणं किय इति कृतमित्यर्थों ज्ञेय इति ॥ ४८७ ॥ तथा — प्रान्च्छनकस्योपरि स्थित्वा प्रतिक्रमणं कृतं शुद्धयति न वा इति मश्नोऽत्रोत्तरं तदुपरि कृतं न शुद्धयतीति, प्रतिक्रमणसूत्रादिकथनवेलायां तु तत्रोपवेष्टव्यमिति ॥ ४८८ ॥ Fonal For Private & Personal Use Only गणिदाम० ४७८-४८५ ज्ञानसागव ४८६-४८८ ॥ ९९ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264