Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 187
________________ Jain Educa तथा—भरतैरवततीर्थकृद्व्यतिरिक्तानां तीर्थकृतां कीदृग् वर्णविभाग इति प्रश्नोऽत्रोत्तरं - पञ्चवर्णान्यतरवर्णरूपो वर्णविभागो ज्ञेयोऽत्रापि पूर्वोक्त एव हेतुरिति ॥ ३५० ॥ तथा - श्रीवस्वामिना पटविद्यया सङ्घः सुभिक्षदेशे नीतः, तत्र सङ्घः किं चतुर्विधः साधुसाध्वीमात्रसमुदायो वा ! पटविद्या च किं| स्वरूपेति प्रश्नोऽत्रोत्तरं - परिशिष्टपर्व्वयुक्त वज्रस्वामिसम्बन्धानुसारेण चतुर्विधसञ्चोऽऽवसीयते नतु साधुसाध्वरूिप एव तथा-यया चक्रवर्त्तिचर्मरत्नवद्विवक्षितविस्तारः पटो भवति सा पटविद्येति ॥ १११ ॥ तथा—देवानां भवधारणीयेनापि वपुषा कादाचित्कमत्रागमनं सम्भवति न वा इति प्रश्नोऽत्रोत्तरं — सङ्गमकसुरसम्बन्धाद्यनुसारेण देवानां भवधारणीयेनापि वपुषा कदाचिदत्रागमनं ज्ञायत इति ॥ ३५२ ॥ तथा - वंदित्तुवृत्तौ ' संखा कंखा ' इति गाथावृत्तौ एकोनाशीतिमिथ्यात्वस्थानकेषु षट्षष्टितमस्थाने ' सर्व्वमासेषु वा तासूपवासादीनि ' सर्व्वास्वकादशीषु उपवासकरणे कथं मिथ्यात्वमिति प्रश्नोऽत्रोत्तरं - चतुर्दश्यष्टमीज्ञानपञ्चमीषु नियततपोदिनेषु उपवासमकृत्वा यदि सर्व्वस्वे - कादशीषु उपवासं करोति तदा मिध्यात्वस्थानं भवतीति ज्ञायते इति ॥ ३५३ ॥ तथा — गच्छान्तरीयसम्यक्त्व देशविरत्युच्चारविधिपत्रेषु सम्यत्तत्वोच्चारालापकप्रान्तवत् द्वादशवतोच्चारालापकप्रान्तेषु अपि रायाभियोगेणामि - त्यादिपडाकारोच्चारणमस्ति तद् यौक्तिकमन्यथा वा इति प्रश्नोऽत्रोत्तरं - आवश्यक निर्युक्त्युपासकदशाङ्गादौ श्रावकाणां सम्यक्त्वोच्चार एव पडाकारा उक्ताः सन्ति, न तु द्वादशत्रतोच्चारे, तेन सम्यक्त्वोच्चार एव राजाभियोगादिषडाकारोच्चारणं युक्तिमत्प्रतिभातीति ॥ ३५४ ॥ emational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264