SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Jain Educa तथा—भरतैरवततीर्थकृद्व्यतिरिक्तानां तीर्थकृतां कीदृग् वर्णविभाग इति प्रश्नोऽत्रोत्तरं - पञ्चवर्णान्यतरवर्णरूपो वर्णविभागो ज्ञेयोऽत्रापि पूर्वोक्त एव हेतुरिति ॥ ३५० ॥ तथा - श्रीवस्वामिना पटविद्यया सङ्घः सुभिक्षदेशे नीतः, तत्र सङ्घः किं चतुर्विधः साधुसाध्वीमात्रसमुदायो वा ! पटविद्या च किं| स्वरूपेति प्रश्नोऽत्रोत्तरं - परिशिष्टपर्व्वयुक्त वज्रस्वामिसम्बन्धानुसारेण चतुर्विधसञ्चोऽऽवसीयते नतु साधुसाध्वरूिप एव तथा-यया चक्रवर्त्तिचर्मरत्नवद्विवक्षितविस्तारः पटो भवति सा पटविद्येति ॥ १११ ॥ तथा—देवानां भवधारणीयेनापि वपुषा कादाचित्कमत्रागमनं सम्भवति न वा इति प्रश्नोऽत्रोत्तरं — सङ्गमकसुरसम्बन्धाद्यनुसारेण देवानां भवधारणीयेनापि वपुषा कदाचिदत्रागमनं ज्ञायत इति ॥ ३५२ ॥ तथा - वंदित्तुवृत्तौ ' संखा कंखा ' इति गाथावृत्तौ एकोनाशीतिमिथ्यात्वस्थानकेषु षट्षष्टितमस्थाने ' सर्व्वमासेषु वा तासूपवासादीनि ' सर्व्वास्वकादशीषु उपवासकरणे कथं मिथ्यात्वमिति प्रश्नोऽत्रोत्तरं - चतुर्दश्यष्टमीज्ञानपञ्चमीषु नियततपोदिनेषु उपवासमकृत्वा यदि सर्व्वस्वे - कादशीषु उपवासं करोति तदा मिध्यात्वस्थानं भवतीति ज्ञायते इति ॥ ३५३ ॥ तथा — गच्छान्तरीयसम्यक्त्व देशविरत्युच्चारविधिपत्रेषु सम्यत्तत्वोच्चारालापकप्रान्तवत् द्वादशवतोच्चारालापकप्रान्तेषु अपि रायाभियोगेणामि - त्यादिपडाकारोच्चारणमस्ति तद् यौक्तिकमन्यथा वा इति प्रश्नोऽत्रोत्तरं - आवश्यक निर्युक्त्युपासकदशाङ्गादौ श्रावकाणां सम्यक्त्वोच्चार एव पडाकारा उक्ताः सन्ति, न तु द्वादशत्रतोच्चारे, तेन सम्यक्त्वोच्चार एव राजाभियोगादिषडाकारोच्चारणं युक्तिमत्प्रतिभातीति ॥ ३५४ ॥ emational For Private & Personal Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy