Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेनप्रश्ने
हर्षचन्द्र ४१५-४२७
३ उल्लासः
तथा-बन्धुनीवकशब्देन किमुच्यते विहुरिओ' इति वृक्षस्य पुष्पाण्यन्यद्वेति प्रश्नोऽत्रोत्तरं-बन्धुनीवकशब्देन बन्धुनीवकपुष्पं शास्त्रे | प्रोक्तमास्ति, लोकमध्ये तु 'बफोरिओ' वृक्ष इति कथितमस्तीति ॥ ४११ ॥
तथा-चण्डरुद्राचार्याः शिष्यस्य स्कन्धे उपविश्य चलिता इति सत्यमसत्यं वा इति प्रश्नोऽत्रोत्तरं-श्रीउत्तराध्ययनवृत्तिप्रमुखबहुग्रन्थानुसारेण चण्डरुद्राचार्येण शिष्यस्य कथितं त्वमग्रतो गमनं कुरु, पश्चात्सोऽग्रतश्चलितः, चण्डरुद्राचार्यास्तु पृष्ठतश्चलिताः, कस्मिश्चिदन्थे कथितमस्ति यच्छिष्यस्य स्कन्धे भुजां दत्त्वा चलिता इति ॥ ४१२ ॥
तथा-बदरीबब्बूलयोरसङ्ख्याता जीवा एको वा इति प्रश्नोत्रोत्तरं-प्रज्ञापनायां प्रथमपदे गुच्छाधिकारे आउलिबदरयोर्मूलकन्दस्कन्ध| त्वक्शाखाप्रपालेषु प्रत्येकमसङ्खयेयजीवात्मकता प्रोक्ताऽस्ति, तदनुसारेण बदरीबब्बूलयोरपि षट्स्वपि स्थानेषु असङ्ख्याता जीवास्सम्भाव्यन्ते, न तु | न्यूनाधिकजीवतेति ॥ ११३॥
तथा-'एगभवम्गहणेणं सयसहस्सपुहत्ताई' इत्यत्र पृथक्त्वशब्देन का सङ्ख्या इति प्रश्नोऽत्रोत्तरं-एकस्मिन् भत्रे — सयसहस्सपुहुत्तं ' इत्यत्र पृथक्त्वशब्दो बहुत्ववाचको, नो चेट्टीकायामेकसंयोगेऽपि शतसहस्रपृथक्त्वोत्पत्तिनिष्पत्तिश्च मत्स्यादीनां मनुष्याणां चोत्पत्तिः प्रतिपादिता | तदा भवे का वार्ता ! तेन दिवसमुहुत्तपुहत्ता इत्यत्रेवात्र पृथक्त्वशब्दस्य बहुत्वार्थकत्वमेवेत्यवसेयम् ॥ ४१४ ॥
अथ पण्डितहर्षचन्द्रगणिकृतप्रश्नास्तदुत्तराणि च । । यथा-श्रीजिनेन्द्राम्बा जिनेन्द्रप्रसवनानन्तरमपत्यं प्रसूते न वा इति प्रश्नोऽत्रोत्तरं-एकान्तो ज्ञातो नास्ति, नेपिनाथादीनां रथनेम्यादेलघुभ्रातृतया प्रतीतत्वादिति ॥ ४१५ ॥
JainEducat
..
For Private
Personal Use Only

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264