________________
सेनप्रश्ने
हर्षचन्द्र ४१५-४२७
३ उल्लासः
तथा-बन्धुनीवकशब्देन किमुच्यते विहुरिओ' इति वृक्षस्य पुष्पाण्यन्यद्वेति प्रश्नोऽत्रोत्तरं-बन्धुनीवकशब्देन बन्धुनीवकपुष्पं शास्त्रे | प्रोक्तमास्ति, लोकमध्ये तु 'बफोरिओ' वृक्ष इति कथितमस्तीति ॥ ४११ ॥
तथा-चण्डरुद्राचार्याः शिष्यस्य स्कन्धे उपविश्य चलिता इति सत्यमसत्यं वा इति प्रश्नोऽत्रोत्तरं-श्रीउत्तराध्ययनवृत्तिप्रमुखबहुग्रन्थानुसारेण चण्डरुद्राचार्येण शिष्यस्य कथितं त्वमग्रतो गमनं कुरु, पश्चात्सोऽग्रतश्चलितः, चण्डरुद्राचार्यास्तु पृष्ठतश्चलिताः, कस्मिश्चिदन्थे कथितमस्ति यच्छिष्यस्य स्कन्धे भुजां दत्त्वा चलिता इति ॥ ४१२ ॥
तथा-बदरीबब्बूलयोरसङ्ख्याता जीवा एको वा इति प्रश्नोत्रोत्तरं-प्रज्ञापनायां प्रथमपदे गुच्छाधिकारे आउलिबदरयोर्मूलकन्दस्कन्ध| त्वक्शाखाप्रपालेषु प्रत्येकमसङ्खयेयजीवात्मकता प्रोक्ताऽस्ति, तदनुसारेण बदरीबब्बूलयोरपि षट्स्वपि स्थानेषु असङ्ख्याता जीवास्सम्भाव्यन्ते, न तु | न्यूनाधिकजीवतेति ॥ ११३॥
तथा-'एगभवम्गहणेणं सयसहस्सपुहत्ताई' इत्यत्र पृथक्त्वशब्देन का सङ्ख्या इति प्रश्नोऽत्रोत्तरं-एकस्मिन् भत्रे — सयसहस्सपुहुत्तं ' इत्यत्र पृथक्त्वशब्दो बहुत्ववाचको, नो चेट्टीकायामेकसंयोगेऽपि शतसहस्रपृथक्त्वोत्पत्तिनिष्पत्तिश्च मत्स्यादीनां मनुष्याणां चोत्पत्तिः प्रतिपादिता | तदा भवे का वार्ता ! तेन दिवसमुहुत्तपुहत्ता इत्यत्रेवात्र पृथक्त्वशब्दस्य बहुत्वार्थकत्वमेवेत्यवसेयम् ॥ ४१४ ॥
अथ पण्डितहर्षचन्द्रगणिकृतप्रश्नास्तदुत्तराणि च । । यथा-श्रीजिनेन्द्राम्बा जिनेन्द्रप्रसवनानन्तरमपत्यं प्रसूते न वा इति प्रश्नोऽत्रोत्तरं-एकान्तो ज्ञातो नास्ति, नेपिनाथादीनां रथनेम्यादेलघुभ्रातृतया प्रतीतत्वादिति ॥ ४१५ ॥
JainEducat
..
For Private
Personal Use Only