SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ तथा-चतुश्शरणाध्यापनमुपासकानां कथं कार्यते, यतीनां योग विना तदनध्यायः श्राद्धानां तु तमन्तरेणैव पाठः, तत्र किं शास्त्र बलीयः किं वा गच्छसामाचारीति प्रश्नोऽत्रोत्तरं-चतुश्शरणादीनि चत्वारि प्रकीर्णकानि आवश्यकवत्प्रतिक्रमणक्रियादिषु बहूपयोगित्वादुपधानयोगोद्वहनं | अन्तरेणापि परम्परयाऽधीयमानानि सन्ति सैव तत्र प्रमाणमिति ॥ ४०७ ॥ तथा-मूतैः कर्मभिरमूर्तस्य जीवस्य वयःपिण्डन्यायेन कथं सम्बन्ध इति प्रश्नोऽत्रोत्तरम्-अरूपिभिः सह रूपाणां संयोगस्सम्भवत्थेव, | यथाऽऽकाशेन सह परमाणूनां पक्षिणां वा, वयःपिण्डन्यायेन तु सम्बन्धविशेषो व्यवस्थाप्यते, न तु रूपिद्वयनियतः सम्बन्ध इति न किञ्चि| दनुपपन्नम् ॥ ४०८॥ तथा-मत्स्यकच्छपवृषमहिषशुकसारसादिजलचरस्थलचरखचरतिरश्चामायुषो गर्भस्थितेश्च कियती परिमितिरिति प्रश्नोऽत्रोत्तरम्-जली चरस्थलचरखचरतिरश्चामायुर्मानं 'गम्भभुअजलयरोभयेत्यादि ' सङ्ग्रहणीगाथातो “ मणुआऊसम गयाई, हयाइ चउरंसऽजाउ अटुंसा । गोमहि | मुट्टखराई, पणंससाणाइ दसमंसा ॥ १ ॥” इति वीरंजयसेहरपयेति क्षेत्रविचारगाथातश्चावसेयं, तेषां गर्भस्थितिमानं तु जघन्यतोऽन्तर्मुहर्त | मुत्कर्षतश्चाष्टौ वर्षाणीति भगवत्यादौ प्रतिपादितमस्तीति ॥ ४०९ ॥ तथा--चतुर्दशनियमेषु द्वित्रादीनि सचित्तादीनि प्रातः प्रत्याख्याने क्रियमाणे मुत्कलानि रक्षितानि, तानि त्वहन्येव सर्वाण्यपि पूर्णी| भूतानि, अथ रात्रौ तेषां कार्ये समुत्पन्ने पूर्वप्रमाणीकृतादप्यपराण्यादातुं कल्पन्ते न वा इति प्रश्नोत्रोत्तरं-श्राद्धानां चतुर्दशनियमेषु द्विवादीनि सचित्तानि प्रातः प्रत्याख्यानसमयेऽहोरात्रावधि मुत्कलानि रक्षितानि भवन्ति तदा तावतां दिवापरिभोगे रात्रावधिकानि न कश्पन्ते, यदि च सन्ध्या वध्येव त.वन्ति मुत्कलानि रक्षितानि तदा रात्रावधिकान्यपि कल्पन्ते इति ॥ ४१०॥ Inn Education For Private Personal Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy