________________
सेनमश्ने
सत्यसो
४०२-801 जीववि० ४०४-४० जससा० ४०६-४१३
इत्यस्याधिकारे ' ताओ अ थुईओ एगसिलोगादिवइंतिआओ पयअक्खरादीहिंवा सरेण वा वडूंतेण तिन्नि भणिऊण' मित्य द्यावश्यकचूण्ये३ उल्लासः क्षरदर्शनमिति सम्भाव्यत इति ॥ ४०२॥ ॥११॥
तथा-भुवनसुरीस्मृतिकायोत्सर्गादनु पाक्षिकप्रतिक्रमणे 'ज्ञानादिगुणयुताना' इति स्तुतिः श्राविकाभिरपि पठ्यते न वा इति, प्रश्नोत्रोहात्तरं--पाक्षिकप्रतिक्रमणे 'ज्ञानादिगुणयुताना' इति स्तुतिः श्राविकाभिः साध्वीभिरपि च कथ्यमानाऽस्तीति ।। ४०३ ॥
अथ पण्डितजीवविजयगणिकृतप्रश्न तदत्तरे च । यथा-प्रत्यहं प्रल्हादनविहारे पञ्चशतीवीसलप्रियाणां भोगः कथितोऽस्ति तन्नाणकं किंनामकं कथ्यते इति प्रश्नोऽत्रोत्तर--वीसलदेन राज्ञा | पातितं वीसलप्रियनामकं तत्कालीनः कश्चिन्नाणकविशेषः सम्भाव्यते, तदधना प्रसिद्धं नास्ति, परं षट्त्रिंशन्मूटकद्रम्मैर्वीसलप्रियनाणकं अष्टशतविंश तिसहस्राधिकद्विषष्टिलक्षप्रमाणं कथितमस्तीति ॥ ४०४ ॥
तथा--श्राविका जिनालये गृहदेवावसरे च प्रतिमायाः प्रक्षालनं करोति नवा इति, तथा यौवनावस्थायां देवपूनां करोति नवा इति । प्रश्नोऽत्रोत्तर-देवगृहे देवावसरे च श्राविका प्रतिमायाः प्रक्षालनं करोति, तथा यौवनावस्थायां पूजामपि करोतीति, यथा ज्ञाताधर्मकथाङ्ग द्रौपद्या योवनावस्थायां स्नपनपूर्वकं पूजा कृतेति बोध्यम् ॥ ४०५ ॥
अथ पण्डितजससागरकृतप्रश्नास्तदुत्तराणि च । तथा-तीर्थकृत्समवसवरणे बली राद्धोऽराद्धो वा ! गच्छे चापक्वाया बलेः प्ररूपणं, मलयगिरिविरचितावश्यकहती तु बलि: सिद्धः । कथितोऽस्तीति प्रश्नोऽत्रोत्तरं-तीर्थकृत्समवसरणे बलिः राद्धोऽवसीयते इति ।। ४०६ ॥
॥११॥
Jain Education international
For Private & Personel Use Only
www.jainelibrary.org