SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ तथा केनापि स्वगृहं जिनगृहे मुक्तं, तत्र श्राद्धः कोऽपि भाटकं दत्वा तिष्ठति न वा इति प्रश्नोऽत्रोत्तरं-यद्यपि साधिकभाटकप्रदानपूर्वकमवस्थाने दोषो न लगति, तथापि तथाविधकारणमन्तरेदं युक्तिमन्न प्रतिभाति, देवद्रव्यभोगादौ निश्शूकताप्रसङ्गादिति ॥ ११ ॥ तथा-कोऽप्युपधानचतुष्कमुद्वाह्य मालां परिदध ति तस्य समुद्देशानुज्ञावस्थायामवशिष्टोपधानयो म गृह्यते न वा इति प्रश्नोऽत्रोत्तरषण्णामप्युपधानानां समुद्देशानुज्ञयोनाम गृह्यते, द्वयोरुद्देशस्य च पुरतोऽपि भवने न दोष इति वृद्धसम्पदायः॥ ४१७ ॥ तथा-सुषेणसेनापतिस्तिमिश्रागुहायाः कपाटोद्घाटनसमये कियमि पश्चादपसरतीति प्रश्नोत्रोत्तरं-कपाटपूनां कृत्वा प्रहारदानार्थ सप्ताष्टपदानि पश्चादपसरतीति, कपाटोद्घाटनसमये द्वादशयोजनावधि सेनानीरत्नतुरगापसरणप्रसादस्तु अनागमिकः, आवश्यकटिप्पनके तथा | भणनादिति ॥ ४१८॥ तथा-सर्वचक्रवर्तिनां सर्वरत्नानि प्रमाणतस्तुल्यानि न्यूनाधिकानि वा इति प्रश्नोत्रोत्तरं-सर्वचक्रवर्तिनां काकिण्यादिरत्नानि कियन्ति केषाञ्चिन्मते प्रमाणाङ्गुलमाननिष्पन्नानि, कियन्ति तु तत्कालीनपुरुषादिमानोचितमानानि, केषाञ्चिन्मते तु सण्यिपि तत्कालोचितमानानीति ॥ ४१९॥ तथा-खाद्यस्तनिकादीनां प्रतिक्रमणकरणोदीरणा क्रियते त्रिवार सामायिकादिदण्डकं चोच्चार्यते तद्युक्तमयुक्तं वा इति प्रश्नोऽत्रोत्तरं-खाद्यस्तनिकादीनां प्रतिक्रमणकरणोदीरणाकरणं न युक्तं, यदि च ते स्वयं प्रतिक्रमणं कुर्वन्ति पौषधादिदण्डकं त्रिवारमुच्चरन्ति तदा द्रव्यक्षेत्रकालभावानुसारेणानुकूलादिगुणसम्भवः स्यात्तदोचार्यते, यमाच्छास्त्रेऽप्येवं दृश्यते 'तम्हा सव्वाणुन्ना सव्वनिसेहो अ पवयणे नत्थि' इति ॥ ४२० ॥ Jain Education International For Private & Personal Use Only V anbrary 09
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy