Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 209
________________ तया-येन दीक्षाग्रहणाथै नीलवणिप्रत्याख्यानं कृतं भवति तस्य दीक्षाग्रहणानन्तरं कल्पते न वा इति प्रश्नोऽत्रोत्तरं-यदि प्रत्याख्यानकरण एवं कथितं भवति यद्दीक्षाग्रहणानन्तरं नीलवाणः कल्पते तदा कल्पते, नान्यथेति ॥ ४५५॥ तथा-बहुतरे दुग्धे दधिन वा यत्राल्पतरान् तन्दुलान् प्रक्षिपति तदुग्धं तद्दधि वा निर्विकृतिकं भवति न वा इति प्रश्नोत्रोत्तर- दक्खबहु अप्पतंदुले' ति भाष्यगाथावचनादल्पतन्दुलप्रक्षेपेऽपि तहुग्धं तद्दभ्यपि निर्विकृतिकं भवतीति ज्ञायत इति ॥ ४५६॥ ... अथ गणिप्रेमविजयकृतप्रश्नास्तदत्तरााण च। यथा--निरन्तरं बहवो जीवा मुक्तौ यान्ति परं मुक्ती सङ्कीर्ण न जायते संसारश्च रिक्तो न भवति तस्य को दृष्टान्त इति प्रश्नोत्रोत्तरं-यथा भूमिकापृत्तिका मेघजलप्रेरिता समुद्रमध्ये निरन्तरं याति तथाऽपि समुद्रः पूष्णों न भवति भूमिकायां च गर्ता न भवति तथा मुक्तावष्ययमेव दृष्टान्तो ज्ञेय इति ॥ ४५७ ॥ तथा-कण्डरीकः सहस्रवर्षे चारित्रं प्रपाल्य एकदिनं विषयसुखं भुक्त्वा नरके गतः तच्चारित्रपालनफलं अग्रे उदयं समेष्यति न वा इति प्रश्नोऽत्रोत्तरं-तत्फलविपाकानुभवे नियमो नास्ति, अत्रापि च विशेषो दृष्टो नास्ति ॥ ४५८॥ तथा-चक्षुर्विकलो ब्रह्मदत्तचक्री रात्रौ द्विनवतिसहस्राधिकलक्षरूपाणि करोति तानि किं चक्षुर्विकलानि स्वाभाविकानि वा इति प्रश्नोत्रोचरं| ब्रह्मदत्तचक्री यानि रूपाणि विकुव्वेति तानि प्रायशश्चक्षुर्विकलानीति ॥ ४१९ ॥ तथा-नवमवासुदेवो द्वारिकायां भवत्यन्यनगरे वा इति प्रश्नोऽत्रोत्तरं-अवसपिण्यां नवमवासुदेवो द्वारिकानगयों भवतीति शास्त्रानु| सारेण ज्ञायते, वृद्धप्रसिद्धिरप्येवमेवास्तीति ।। ४१०॥ रात्री द्विनवतिसहलात ॥ ४५९ ॥. अवपिण्यां । Jain Education i n al For Private 8 Personal Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264