Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दाराधनापताकाप्रकीर्णकसम्बन्धि गाथात्रयमस्ति, तन्मध्ये यति १ देशविरतिश्रावका २ ऽविरतसम्यग्दृष्टि ३ जिनशासनसम्बन्धि विनाऽन्येषां दाक्षिण्यदयालुत्वादिकं प्रशस्यतयोक्तं, ततोऽयुक्तं ज्ञातं नास्ति, यत एते गुणाः श्रीजिनैरानेतन्या एव कथितास्सन्तीति ।। ४ ४.५ ।।
तथा-साधूनां भावपूजा कथिताऽस्ति, प्रतिष्ठादावञ्जनशलाकाकरणे तु द्रव्यपूजा जायते तत्कथमिति प्रश्नोऽत्रोचर-साधूनां बाहुल्येन भावपूजा श्राद्धानां च बाहुल्येन द्रव्यपूजा कथिताऽस्ति, परमत्रैकान्तो ज्ञातो नास्ति, यतः-श्रीस्थानाङ्गसूत्रे 'पूए नामेगे पूजावेइ * इति चतु| भङ्गिकाऽस्ति, एतस्या अर्थकरणे यतीनामेकान्तद्रव्यपूनानिषेधो ज्ञातो नास्ति, यतोऽङ्गरागेण यतिपतीनां पूजा क्रियते, सापि द्रव्यपूजा | | भवतीति ॥ ४४६ ॥ । तथा नेमिनाथस्यैकादश गणधरा एकविंशतिस्थानके कथिताः, कल्पसूत्रे तु अष्टादश तत्कथमिति प्रश्नोऽत्रोचरं-तावन्त एवैकविंशति स्थानके तथा सप्ततिशतस्थानकवचनसारोद्धारावश्यकादिग्रन्थेषु च कथिताः सन्ति, कल्पसूत्रे तु नेमिनाथस्याटादश गणधरा इत्यादि यदन्तरं पतति तन्मतान्तरं ज्ञेयमिति ॥ ४४७ ॥
तथा-नववासुदेवानां शरीरचलं सदृशं न्यूनाधिकं वा इति प्रश्नोऽत्रोत्तरं-अवसर्पिणीकालानुभावेन तेषां शरीरबलं न्यूनाधिकमपि भवति, यतः प्रथमवासुदेवेन कोटिशिला छत्रस्थानीया कृता, नवमवासुदेवेन भूमिकातः सा चतुरङ्गुलानि थाक्दुत्पादिताऽस्तीति ।। ४४८ ॥
तथा-कार्तिकामावास्यारात्रौ ' श्रीमहावीरसर्वज्ञाय नमः' इति गण्यते तत्किाथै ! , कस्मिन दिने च ज्ञानमुत्पन्न मति प्रश्नोत्रोत्तरंश्रीमहावीरेण सर्वज्ञत्वेन देशना दत्ता तेन ' श्रीमहावीरसर्वज्ञाय नमः । इति गण्यते, तन्मध्यरात्रे तु मुक्तिं गतस्तेन ' श्रीमहावीर सारंगताय नमः' इति गण्यते ॥ ४४९॥
Jain Educationtiny
For Private & Personal Use Only
Jainelibrary.org

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264