Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
तथा देशावकाशिकेन सह सामायिकमुच्चरति न वा ? इति प्रश्नोऽत्रोत्तरं देशावकाशिको चरणविधिः ' देसावगासिअं उवभोगपरिभोगं पच्चक्खामि ' इत्यादिको दृश्यते, परं पारणविधिर्ज्ञातो नास्ति, तथा देशावकाशिकमध्ये सामायिकस्य ग्रहणं पारणं च शुद्धयति, तेन सह सामायिकग्रहणमपि शुद्ध्यतीति ॥ ४२६ ॥
तथा - उपधाने पालीपरावर्त्तनं शुद्धयति न वा इति प्रश्नोत्तरं तयाविधकारणे तत्प्रत्याख्यानं शुद्धयतीति ॥ ४२७॥
अथ पण्डितधर्मविजयगणिकृतप्रश्नौ तदुत्तरे च ।
तथा — आराधना श्रीराणपुरप्रतिष्ठा कृत्श्री सोमसुन्दरमूरिकृता किंवा श्रीसोमममसूरिकृता इति प्रश्नोऽत्रोत्तरं - आराधनासूत्रं सप्तचत्वारिंशत्तम पट्टे श्री सोमप्रभसूरिकृतमिति ॥ ४२८ ॥
तथा - देवप्रणतेः पूर्वं घण्टां वादयन्ति पश्चाद्वा इति प्रश्नोऽत्रोत्तरं - अन्यद्रव्य पूजा करणानन्तरं नादपूजारूपा घण्टा वाद्यत इति पूजाकारकवृद्धश्राद्धपरम्परा वर्त्तते, तेन पूजाकरणे पुष्प दिरूपद्रव्य पूजाकरणानन्तरं घण्टा वाद्यते, चैत्यवन्दनमात्रकरणे तु अक्षतादिमोचनरूपद्रव्यपूजा करणानन्तरं घण्टा वाद्यत इति ज्ञायते, अन्यथा घण्टावादनं तु हर्ष प्रकर्षसूचक लोकप्रवाहपतितं, न तु परम्परानुसारीति ॥ ४२९ ॥
अथ पण्डितविद्याविजयगणिकृतप्रश्नास्तदुत्तराणि च ।
यथा— उद्घाटितमुखजल्पने ईर्यापथिकी समायाति वन्दनकदानावसरे तु कथं नायाति इति प्रश्नोऽत्रोत्तरं वन्दनक दानावसरे विधिसत्यापनार्थमुद्घाटित मुखस्यापि जल्पतः प्रमादाभावान्नैर्यापथिकी समायातीति ध्येयम् ॥ ४३० ॥
onal
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264