SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Jain Education तथा देशावकाशिकेन सह सामायिकमुच्चरति न वा ? इति प्रश्नोऽत्रोत्तरं देशावकाशिको चरणविधिः ' देसावगासिअं उवभोगपरिभोगं पच्चक्खामि ' इत्यादिको दृश्यते, परं पारणविधिर्ज्ञातो नास्ति, तथा देशावकाशिकमध्ये सामायिकस्य ग्रहणं पारणं च शुद्धयति, तेन सह सामायिकग्रहणमपि शुद्ध्यतीति ॥ ४२६ ॥ तथा - उपधाने पालीपरावर्त्तनं शुद्धयति न वा इति प्रश्नोत्तरं तयाविधकारणे तत्प्रत्याख्यानं शुद्धयतीति ॥ ४२७॥ अथ पण्डितधर्मविजयगणिकृतप्रश्नौ तदुत्तरे च । तथा — आराधना श्रीराणपुरप्रतिष्ठा कृत्श्री सोमसुन्दरमूरिकृता किंवा श्रीसोमममसूरिकृता इति प्रश्नोऽत्रोत्तरं - आराधनासूत्रं सप्तचत्वारिंशत्तम पट्टे श्री सोमप्रभसूरिकृतमिति ॥ ४२८ ॥ तथा - देवप्रणतेः पूर्वं घण्टां वादयन्ति पश्चाद्वा इति प्रश्नोऽत्रोत्तरं - अन्यद्रव्य पूजा करणानन्तरं नादपूजारूपा घण्टा वाद्यत इति पूजाकारकवृद्धश्राद्धपरम्परा वर्त्तते, तेन पूजाकरणे पुष्प दिरूपद्रव्य पूजाकरणानन्तरं घण्टा वाद्यते, चैत्यवन्दनमात्रकरणे तु अक्षतादिमोचनरूपद्रव्यपूजा करणानन्तरं घण्टा वाद्यत इति ज्ञायते, अन्यथा घण्टावादनं तु हर्ष प्रकर्षसूचक लोकप्रवाहपतितं, न तु परम्परानुसारीति ॥ ४२९ ॥ अथ पण्डितविद्याविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा— उद्घाटितमुखजल्पने ईर्यापथिकी समायाति वन्दनकदानावसरे तु कथं नायाति इति प्रश्नोऽत्रोत्तरं वन्दनक दानावसरे विधिसत्यापनार्थमुद्घाटित मुखस्यापि जल्पतः प्रमादाभावान्नैर्यापथिकी समायातीति ध्येयम् ॥ ४३० ॥ onal For Private & Personal Use Only jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy