Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तथा - 'देसिअ राइअ पक्खिये 'ति कायोत्सर्गनियुक्तिगत चतुर्नवतितमगाथार्थो हारिभद्रयां वृत्तौ व्याख्यातोऽस्ति तत्रैकैकस्मिन् प्रति क्रमणे त्रयो गमाः प्रतिपादिताः सन्ति, ते पञ्चस्वपि प्रतिक्रमणेषु यथास्थानं यथा समाप्ता गमा भवन्ति तथा व्यक्त्या प्रसाद्या इति प्रश्नोऽत्रोत्तरं - दैवसिकादिषु पञ्चसु प्रतिक्रमणेषु प्रारम्भानन्तरं यत्प्रथमं ' करेमि भंते!' इत्याद्युच्चारणं स प्रथमगमप्रारम्भः, तदनु प्रतिक्रमणसूत्रपठनावसरे यत् ' करेमि भंते!' इत्याद्युच्चारणं स द्वितीयगमप्रारम्भस्तस्योच्चारादवाक् प्रथमगमस्य समाप्तिः, तथ तृतीयवेलायां यत् ' करेमि भंते! ' इत्याद्युच्चारणं स तृतीयगमस्य प्रारम्भस्तस्य पूर्व्वे तु द्वितीयगमस्य समाप्तिः, तृतीयगमसमाप्तिस्तु तत्प्रतिक्रमणसमाप्तिं यावदिति श्री आवश्यकबृहत्त्यनुसारेणावसीयत इति ॥ २८९ ॥
तथा - अश्रुत्वा केवलिनस्तीर्थे भवन्ति तीर्थविच्छेदे वा भवन्ति ?, यदि तद्विच्छेदे भवन्ति तदा पाक्षिकसूत्रवृत्तौ अतीर्थेऽन्त कृत्व लिनो भूत्वा सिद्ध्यन्ति, भगवत्यां च नवमशतके तदाश्रित्य तप्पक्खियसावगस्स तप्पक्खियसाविया एवे ' त्यत्र धम्मोपदेशं न दत्ते, एकं प्रश्नं ज्ञातमेकं च मुक्त्वेत्यभिप्रायेणाश्रुत्वा केवलिनस्तीर्थे एव भवन्ति । अन्यच्चाश्रुत्वाकेवलिनः पञ्चदशभेदभिन्नानां सिद्धानां मध्ये कस्मिन् भेदे समायान्ति, | तेनैतद्विषये सर्व्व सविस्तरं प्रसाद्यामिति प्रश्नोऽत्रोत्तरं - अश्रुत्वा केवलिनः श्रीभगवतीसूत्रवृत्त्यनुसारेण तीर्थ एव भवन्ति, नातीर्थे । पाक्षिकसूत्रवृत्तौ तु अतीर्थसिद्धाधिकार एते उक्ता न सन्तीति, तथा ते तीर्थसिद्धादिमध्ये यथासम्भवमवतरन्तीति ॥ ३८२॥
तथा - आचाराङ्गलोकसाराध्ययनपञ्चमोद्देशकादिमसूत्रे ह्रदेोपमेनाचार्येण भाव्यमित्यत्र वृत्तौ धर्ममाश्रित्य चतुर्भङ्गयां प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्था इत्युक्तप्रकारेण सर्वेऽपि प्रत्येकबुद्धा धर्मोपदेशं न ददत्येतत्कथं सञ्जाघटीति, यतः - ऋषिमण्डलसूत्रे “ पत्ते अबुद्धसाहू, नमिमो जे भासिउं सिवं पत्ता | पणयालीस इसिमासियाई अज्झयणपराई ॥ १ ॥ " इति गाथायां प्रत्येकबुद्धानामध्ययनमुक्तामिति किमत्र
Jain Education International
For Private & Personal Use Only
v.jainelibrary.org

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264