SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ तथा - 'देसिअ राइअ पक्खिये 'ति कायोत्सर्गनियुक्तिगत चतुर्नवतितमगाथार्थो हारिभद्रयां वृत्तौ व्याख्यातोऽस्ति तत्रैकैकस्मिन् प्रति क्रमणे त्रयो गमाः प्रतिपादिताः सन्ति, ते पञ्चस्वपि प्रतिक्रमणेषु यथास्थानं यथा समाप्ता गमा भवन्ति तथा व्यक्त्या प्रसाद्या इति प्रश्नोऽत्रोत्तरं - दैवसिकादिषु पञ्चसु प्रतिक्रमणेषु प्रारम्भानन्तरं यत्प्रथमं ' करेमि भंते!' इत्याद्युच्चारणं स प्रथमगमप्रारम्भः, तदनु प्रतिक्रमणसूत्रपठनावसरे यत् ' करेमि भंते!' इत्याद्युच्चारणं स द्वितीयगमप्रारम्भस्तस्योच्चारादवाक् प्रथमगमस्य समाप्तिः, तथ तृतीयवेलायां यत् ' करेमि भंते! ' इत्याद्युच्चारणं स तृतीयगमस्य प्रारम्भस्तस्य पूर्व्वे तु द्वितीयगमस्य समाप्तिः, तृतीयगमसमाप्तिस्तु तत्प्रतिक्रमणसमाप्तिं यावदिति श्री आवश्यकबृहत्त्यनुसारेणावसीयत इति ॥ २८९ ॥ तथा - अश्रुत्वा केवलिनस्तीर्थे भवन्ति तीर्थविच्छेदे वा भवन्ति ?, यदि तद्विच्छेदे भवन्ति तदा पाक्षिकसूत्रवृत्तौ अतीर्थेऽन्त कृत्व लिनो भूत्वा सिद्ध्यन्ति, भगवत्यां च नवमशतके तदाश्रित्य तप्पक्खियसावगस्स तप्पक्खियसाविया एवे ' त्यत्र धम्मोपदेशं न दत्ते, एकं प्रश्नं ज्ञातमेकं च मुक्त्वेत्यभिप्रायेणाश्रुत्वा केवलिनस्तीर्थे एव भवन्ति । अन्यच्चाश्रुत्वाकेवलिनः पञ्चदशभेदभिन्नानां सिद्धानां मध्ये कस्मिन् भेदे समायान्ति, | तेनैतद्विषये सर्व्व सविस्तरं प्रसाद्यामिति प्रश्नोऽत्रोत्तरं - अश्रुत्वा केवलिनः श्रीभगवतीसूत्रवृत्त्यनुसारेण तीर्थ एव भवन्ति, नातीर्थे । पाक्षिकसूत्रवृत्तौ तु अतीर्थसिद्धाधिकार एते उक्ता न सन्तीति, तथा ते तीर्थसिद्धादिमध्ये यथासम्भवमवतरन्तीति ॥ ३८२॥ तथा - आचाराङ्गलोकसाराध्ययनपञ्चमोद्देशकादिमसूत्रे ह्रदेोपमेनाचार्येण भाव्यमित्यत्र वृत्तौ धर्ममाश्रित्य चतुर्भङ्गयां प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्था इत्युक्तप्रकारेण सर्वेऽपि प्रत्येकबुद्धा धर्मोपदेशं न ददत्येतत्कथं सञ्जाघटीति, यतः - ऋषिमण्डलसूत्रे “ पत्ते अबुद्धसाहू, नमिमो जे भासिउं सिवं पत्ता | पणयालीस इसिमासियाई अज्झयणपराई ॥ १ ॥ " इति गाथायां प्रत्येकबुद्धानामध्ययनमुक्तामिति किमत्र Jain Education International For Private & Personal Use Only v.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy