SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सेगप्रश्ने श्रीविजयसेनसूरिसत्कपण्डितकनकविजयगणिकृतप्रश्नास्तदुत्तराणि च । कनकवि० ३ उल्लासः ३७६ यथा-षष्ठादौ प्रत्याख्याने भक्तद्वयकथनाधिक्यस्य किं प्रयोजनमिति प्रश्नोऽत्रोत्तरं-सामान्यतः सतां द्विवारं भोजनं लोकप्रतीतमित्यु- विजयसेन पवासद्वयेन भोजनचतुष्टयं, भोजनद्वयं च पारणोत्तरपारणयोरेकाशनपूर्वक कार्यते इति ॥ ३७७ ॥ ३७७-३७९ दयाविजय तथा-वीरात् कियन्तो दुर्भिक्षा अभवन् ! यतः केऽप्येवं कथयन्ति यदुर्भिक्षद्वयमभवत् , परिशिष्टपादौ च बहवः सन्तीति प्रश्नोऽत्रोत्तरं- TV ३८०-३८७ | वीराद् अर्वाग् दुष्काला भूयांसो बभूवुः , परं साक्षाद् द्वादशाब्ददुष्कालत्रयं शास्त्रे प्रोक्तं दृश्यते, तत्र परिशिष्टपर्वणि द्वयं, नन्दीवृत्तौ चैक इति। ये तु दुष्कालद्वयमेव कथयन्ति तत्कस्मिन् शास्त्रे वर्तते तन्नाम ज्ञापनीयं, पश्चात्तदुत्तरविषये ज्ञास्यत इति ।। ३७८ ॥ तथा-सा त्रिकोट्यः पुत्रपौत्राः कृष्णस्य, भरतस्य तु सपादा कोटिः, तत्र कालस्तु पतनशीलोऽस्ति, तत्कथमाधिक्यं सञ्जाघटीति प्रश्नोNोत्तर-द्वारकानगर्यो सार्द्धत्रिकोटयः कुमाराः प्रोक्तास्सन्ति, ते चानेकेषां यदुवंशीयानां पुत्रा न त्वेकस्यैव कृष्णस्य, भरतस्य तु सपादकोटिः | पुत्रा इति न काऽप्यघटमानतेति ॥ ३७९ ॥ अथ पण्डितदयाविजयगणिगुणविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा-दर्शनसम्यक्त्वयोः कः प्रतिविशेषः ! येन द्वयोरप्यतीचाराः, परमार्थतः परस्परं केचन सदृशा एव दृश्यन्ते, तेन तयोर्यक्त्या भेदः । प्रसाद्य इति प्रश्नोत्रोत्तरं-दर्शनसम्यक्त्वयोर्वस्तुगत्याऽभेदेऽपि कथञ्चिन्निःशङ्कित्वाद्यभाव एव सम्यक्त्वातिचार उच्यते, शङ्कादिसद्भावस्तु दर्शनातिचार इति व्यक्तं प्रवचनसारोद्धारवृत्तौ षष्ठे द्वारे ।। ३८० ॥ Jain Education For Private & Personel Use Only M ainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy