________________
तथा-सप्तक्षेत्रमुक्तद्रव्यान्तः साधुसाध्वीद्रव्यस्य व्ययः साधुसाध्वीनां कस्मिन् स्थाने योज्यते श्राद्धैरिति प्रश्नोऽत्रोत्तर-सप्तक्षेत्रीमुक्तद्रव्यस्य व्ययः साधुसाध्वीक्षेत्रयोरापत्राणवैद्यानयनमार्गसहायकरणादिषु श्राद्धैः कार्यत इति ॥ ३७२ ॥
तथा तहेव काणं काणं' ति वचनमुद्भाव्य न मिथ्यादृष्टेमिथ्यादृष्टित्ववचनव्यवहारः कठिनवचनत्वादिति केचनापि प्रतिपादयन्ति इति |प्रश्नोत्रोत्तरं-मिथ्यादृष्टेमिथ्यादृष्टिरिति कथनं तदकथनं च यथासमयं विधेयमिति ॥ ३७३ ॥
तथा-देवव्यस्य वृद्धिकृते श्राद्धस्तत्स्वयं व्याजेन गृह्यते न वा इति, तद्ब्राहकाणां दूषणं किं वा भूषणमिति प्रश्नोऽत्रोत्तर-श्राद्धानां देवद्रव्यस्य व्याजेन ग्रहणं न युज्यते, निःशकताप्रसङ्गात् , नतु वाणिज्यादौ व्यापारणीय स्वल्पस्यापि देवद्रव्यभोगस्य सङ्काशसम्बन्धादिष्वतीवायतौ दुष्टविपाकजनकतया दर्शितत्वादिति ॥ ३७४ ॥
तथा-उत्सूत्रभाषिप्रारब्धाष्टोत्तरीस्नात्रादौ स्वजनादिकारणं विना सम्यग्दृशां तत्र गमने सम्यक्त्वस्य दूषणं किं लगति न वा इति | प्रश्नोऽत्रोत्तरं-स्नात्रादौ गमने सम्यक्त्वस्य दूषणं ज्ञातं नास्तीति ॥ ३७५ ॥
तथा पण्डितकनकविजयगणिकृतप्रश्नस्तदुत्तरं च । यथा-वृद्धविध्युपधानवाहकस्य कृतचतुर्विधाहारोपवासस्य सन्ध्याप्रत्याख्यानवेलायां सन्ध्याप्रत्याख्यानं गुरुसमक्षं कर्त्तव्यं न वा इति प्रश्नोऽत्रोत्तरं प्रातः कृतचतुर्विधाहारोपवासस्य सन्ध्यायामुपधानक्रियाकरणवेलायां पश्चात्प्रत्याख्यानं कृतं विलोक्यते, उपधानमन्तरा तु सन्ध्याया तत्स्मरण विलोक्यते, परं पुनः प्रत्याख्यानकरणविशेषो ज्ञातो नास्तीति ॥ ३७६ ॥
Jain Educa
t
ional
For Private & Personel Use Only
O
ww.jainelibrary.org