Book Title: Prashna ratnakarabhidh Shreesen Prashna
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तथा-जीवाभिगमादौ सूत्रे आरात्रिकमङ्गलप्रदीपाक्षराणि यदि स्युस्तदा तानि प्रसाद्यानीति प्रश्नोत्रोत्तरं-जीवाभिगमादिसूत्रेण्वारात्रिकमङ्गलप्रदीपाक्षराणि साक्षान्नोपलम्यन्ते, प्रकरणेषु तु बहुषु सन्ति, तत्रापि विप्रतिपत्तिः पञ्चाङ्गीमङ्गीकुर्वतां काऽपि नास्तीति तात्पर्यम् ॥ ३३४ ॥ |
तथा-खानिजोऽपि हिङ्गुल: 'जोअणसयं तु गंतुं' इत्यक्षरबलात् प्रवहणादागतोऽचित्तीभवति, कृत्रिमस्य तदचितत्वे किं वाच्यं ! तथापि तस्य सचित्ततान्यवहारः क्रियते, तत्र को हेतुरिति प्रश्नोऽत्रोत्तरं-हिङ्गुलः खानिजो योजनशतादेः परत. आयातत्वात्कृत्रिमश्च स्वत एवोभावप्यचित्तौ ज्ञायते, तद्ग्रहणं तु अनाचीपर्णतया, तेन साम्प्रतं संवर्तितः सन् गृह्यत इति यतिव्यवहार इति ॥ ३३५ ॥
अथ पण्डितदेवविजयगणिकृतप्रश्नास्तदुत्तराणि चयथा-जत्थ जलं तत्थ वणं' इति व्याप्तिः सावधारणाऽन्यथाऽपि वा ? तदपि वनं किं प्रत्येकरूपं साधारणं उभयं वा ! तदुभयमपि | किं सूक्ष्मं बादरं तदुभयमपि वा ? तथा 'जत्थ जल' मिति वचोयुक्त्या कुम्भादिगतजलव्यापारणे श्राद्धस्य वनस्पतिकायविराधनापि लगति न वा इति प्रश्नोत्रोत्तरं-इयं व्याप्तिः सावधारणा ज्ञायते श्रीदशवकालिके पिण्डैषणाध्ययने ' साहदु निक्खिवित्ताणं' इत्यादि गाथावृत्तौ तथोक्तेः । तथा स वनस्पतिर्बादरसाधारणप्रत्येकरूपो ज्ञायते । तथा कुम्भादिगतजलव्यापारणे वनस्पतिविराधना भवति, परं तत्प्रत्याख्यानभङ्गो न भवति, | तस्य व्यावहारिकवनस्पत्याश्रितत्वादिति ॥ ३३६ ॥
तथा-उपधानावाहिनां पञ्चमङ्गलमहाश्रुतस्कन्धपाठे विराधनायामनन्तसंसारावाप्तिः फलं, तदाश्रित्य किमादिश्यते इति प्रश्नोऽत्रोत्तरंउपधानावहनेऽनन्तसंसारिता महानिशीथे उक्ता, परं तत्सूत्रमुत्सर्गनयाश्रितं, तेन यो नास्तिकस्सन्नुराधानवहननिरपेक्षस्तस्य सेति ज्ञेयम् ॥ ३३७ ॥
Jain Education
al
For Private & Personel Use Only
linelibrary.org

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264