SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ तथा-जीवाभिगमादौ सूत्रे आरात्रिकमङ्गलप्रदीपाक्षराणि यदि स्युस्तदा तानि प्रसाद्यानीति प्रश्नोत्रोत्तरं-जीवाभिगमादिसूत्रेण्वारात्रिकमङ्गलप्रदीपाक्षराणि साक्षान्नोपलम्यन्ते, प्रकरणेषु तु बहुषु सन्ति, तत्रापि विप्रतिपत्तिः पञ्चाङ्गीमङ्गीकुर्वतां काऽपि नास्तीति तात्पर्यम् ॥ ३३४ ॥ | तथा-खानिजोऽपि हिङ्गुल: 'जोअणसयं तु गंतुं' इत्यक्षरबलात् प्रवहणादागतोऽचित्तीभवति, कृत्रिमस्य तदचितत्वे किं वाच्यं ! तथापि तस्य सचित्ततान्यवहारः क्रियते, तत्र को हेतुरिति प्रश्नोऽत्रोत्तरं-हिङ्गुलः खानिजो योजनशतादेः परत. आयातत्वात्कृत्रिमश्च स्वत एवोभावप्यचित्तौ ज्ञायते, तद्ग्रहणं तु अनाचीपर्णतया, तेन साम्प्रतं संवर्तितः सन् गृह्यत इति यतिव्यवहार इति ॥ ३३५ ॥ अथ पण्डितदेवविजयगणिकृतप्रश्नास्तदुत्तराणि चयथा-जत्थ जलं तत्थ वणं' इति व्याप्तिः सावधारणाऽन्यथाऽपि वा ? तदपि वनं किं प्रत्येकरूपं साधारणं उभयं वा ! तदुभयमपि | किं सूक्ष्मं बादरं तदुभयमपि वा ? तथा 'जत्थ जल' मिति वचोयुक्त्या कुम्भादिगतजलव्यापारणे श्राद्धस्य वनस्पतिकायविराधनापि लगति न वा इति प्रश्नोत्रोत्तरं-इयं व्याप्तिः सावधारणा ज्ञायते श्रीदशवकालिके पिण्डैषणाध्ययने ' साहदु निक्खिवित्ताणं' इत्यादि गाथावृत्तौ तथोक्तेः । तथा स वनस्पतिर्बादरसाधारणप्रत्येकरूपो ज्ञायते । तथा कुम्भादिगतजलव्यापारणे वनस्पतिविराधना भवति, परं तत्प्रत्याख्यानभङ्गो न भवति, | तस्य व्यावहारिकवनस्पत्याश्रितत्वादिति ॥ ३३६ ॥ तथा-उपधानावाहिनां पञ्चमङ्गलमहाश्रुतस्कन्धपाठे विराधनायामनन्तसंसारावाप्तिः फलं, तदाश्रित्य किमादिश्यते इति प्रश्नोऽत्रोत्तरंउपधानावहनेऽनन्तसंसारिता महानिशीथे उक्ता, परं तत्सूत्रमुत्सर्गनयाश्रितं, तेन यो नास्तिकस्सन्नुराधानवहननिरपेक्षस्तस्य सेति ज्ञेयम् ॥ ३३७ ॥ Jain Education al For Private & Personel Use Only linelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy