________________
सेनप्रश्ने ३उल्लासः
मुनिविज० ३२६-३३५
॥८३॥
@
I
तथा-उपासकदशाङ्ग योगशास्त्रे च श्राद्धानां पञ्चाचारातिचाराः कथं नोक्ता इति प्रश्नोऽत्रोत्तरं-उपासकदशाङ्गन्योगशास्त्रयोः | सम्यक्त्वमूलकवतानामेवाभिधातुमुपक्रान्तत्वात्तदतिचारा एवोक्ता इति ॥ ३२९ ॥
तथा-आमगोरससम्पृक्तद्विदलं इत्यत्र गोरसशब्देन किं व्याख्यातमस्ति इति प्रश्नोत्रोत्तरं-गोरसशब्देन दुग्धं दधि तक्रं च त्रयमपि | परम्परयाऽभिधीयमानमस्ति, योगशास्त्रवृत्तौ गोरसशब्दार्थों व्याख्यातो नास्ति ॥ ३३० ॥
तथा-सन्धानस्य योगशास्त्राभिप्रायेण संसक्ते सति त्याज्यत्वं, प्रवचनसारोद्धारे तु संसक्तत्वविशेषणं नास्ति, तत्र कोऽभिप्रायः ! सन्धानं च कया रीत्या कृतं सत्स्यात् कया रीत्या च न इति प्रश्नोऽत्रोत्तर-सन्धानस्य त्याज्यत्वे हेतुः प्रायः संसक्तत्वमेवेति, प्रवचन| सारोद्धारे तु संसक्तमाल्लभ्यत एव । सन्धानं च जलादिजनितार्द्रत्वे सति भवतीति वृद्धव्यवहारोऽस्तीत्यवसेयः ॥ ३३१ ॥
तथा–पाक्षिकपतिक्रान्ती श्राद्धैरुच्यमानास्तपआचाराद्यतीचाराः साधुभिः श्रूयन्ते, केवलसाधवश्व प्रतिक्रामन्तस्तानतीचारान् कथयन्ति न वा ? साम्प्रतं तु न केचित्कथयन्तीति प्रश्नोऽत्रोत्तरं-केवलप्साधुभिः पाक्षिकप्रतिक्रमणे क्रियमाणे तपआचाराद्यतीचारा यद्यायान्ति तदा स्वयं कथनीयाः, तत्प्रवृत्तिरपि दृष्टाऽस्तीति ॥ ३३२ ॥
तथा-श्राद्धानां चरवलकंग्रहणं तदप्पिअकरणे' त्ति विना व्यक्तरीत्या क्वचिच्चादावभिहितं स्यात् तदा तान्यक्षराणि प्रसाद्यानीति |प्रश्नोऽत्रोत्तरं-'साहूणं सगासाओ रयहरणं निसिजं वा मम्गति, अह घरे तो से उवम्गहिअरयहरणं अत्थि' इत्यादिकान्यावश्यकचूादौ | रजोहरणाक्षराणि सन्ति, श्राद्धानां च रजोहरणं चरवलक एवेति ॥ ३३३ ॥
Jan Education Intemanona
For Private
Personel Use Only